This page has not been fully proofread.

२६.
 
1516
 
गणेशाथर्वशीर्षम् ।
 
" मनसो वृत्तिहीनस्य ब्रह्माकारेण या स्थितिः ।
असंप्रज्ञातनामाऽसौ समाधिरभिधीयते " ॥
 
इति स्मृतेः । ततस्तत्त्वमनुभवसुखयुक्तं निरोधभूमिहीनत्वाञ्चित्तवृत्ति
निरोधात्मकं पञ्चभूमिवर्जितं ब्रह्मभूतप्रकाशकत्वात् त्वंपदतत्पदामिसिपद
विभागशून्यत्वाच्च । एवं चित्तं जित्वा योगी भवतीति ब्रह्मैकात्मक-
त्वात् । योगिनां शुकवामदेवादीनां वरो गणेशभक्तिपरायणत्वात् प्रत्य-
क्षतत्त्वमसिशरीरभृन्नवधाचित्त प्रवेश कायिकवाचिकमानसिक सांसर्गिक-
सदाबह्मतत्परचेष्टात्मकत्वात् वेदादिद्वहृद्गतज्ञानोद्वाधारकत्वाच्च । न चैवं
योगी दर्शनस्पर्शनादिजनोद्धारकत्वात् प्रारब्धक्षय
सै
ब्रह्मैकत्वात् श्रेष्ठतम
इति वाच्यम् । नवधा चित्तशून्यवद्धारकत्वाद्वेदादिहृद्रतनानोपदेशहीन-
त्वात्प्रारब्धक्षये स्वयमेव ब्रह्मैकत्वाज्जनोद्धारकतत्वाकृतत्वाद्योगी श्रेष्ठ । ठः ।
गाणे
शयोगी तु श्रेष्ठतमः, पूर्वोक्तबल चेष्टापरत्वाज्जनोद्धारकत्वाच्च । न चैवं
शिवविष्ण्वादिध्यानयुक्तोऽपि योगिनां वरः, तत्तद्भक्तिपर रायणत्वादिति
वाच्यम् । तेषामथर्वशिरःसु तत्त्वमस्यादिमहावाक्यात्मकशरीराभावा-
द्योगिपदाभावाच्च । तत्र परमहंमा योगिनो गाणेशा भवन्ति, योगि
पदस्य परमहंसपरत्वात् एकगणेशाथर्वशीर्ष प्रतिपादनत्वात् अन्यदेव धि-
कारशून्यत्वाच्च । दण्डहीनाः परमहंसा ब्रह्मभूतास्तद्वन्दनं ब्रह्मशब्दा
भिधं, नारायणात्मकभावात् । "दण्डग्रहणमात्रेण नरो नारावणो भवेत्"
इति स्मृतेः । गाणेशयोगिवन्दनं गणेशशब्दाभिधं च परमहंसानां वर-
त्वात् ॥ इति ध्यानात्मको नवमः खण्डः ॥ ९ ॥
 
61
 
एवं ध्यानं प्रतिपाय स्तुत्यर्थमाह -
 
नमो व्रातपतये नमो गणपतये नमः प्रमथप-
तये नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्नना-
शिने शिवसुताय वरदमूर्तये नमः ॥ १० ॥
 
नमः इति । व्रातपतये देवा दिवातानां जीवानां पतित्वात्ते तुम्धं नमः ।
गणपतये ब्रह्मविष्णु महेशादिगणानां पतित्वात् ईश्वरत्वात् ते नमः ।
ब्रह्मविष्ण्वादिगणानामीशभूतामित्याह । तद्गगेश इति । तत्परमित्याह ।