This page has been fully proofread once and needs a second look.

सभाष्यम् ।
 
नम् । तत्र भक्तिर्गणेशैकतत्परा इहलोकपरलोकविषयेच्छाहीनात्मिका,
कायिकवाचिकमानसिकसांसर्गिकतदेकरसयुक्तत्वात् । तद्यथा संक्षेपतः–
"इत्येवं नवधा भक्ती रसयुक्ता कृता मयि ।
क्षणमात्रं न सहते चित्तं मद्रसवर्जितम् ॥
तदा संपूर्णभक्तश्च जातो वै नात्र संशयः ।
अहं मोहेन संयुक्तस्तत्र तिष्ठामि सर्वदा " ॥
 
इति स्मृतेः । देवम्, सर्वत्र तत्तद्रूपेण क्रीडाकारकत्वात् । दिवु
क्रीडायाम् इति धात्वर्थात् । जगत्कारणमनादित्वात्सर्वपूज्यत्वात् ।
" ज्येष्ठराजम् " इति श्रुतेस्तज्ज्येष्ठाभावात् । न चैवं नानावेदशाखापा-
ठेषु कुत्रान्यदेवो ज्येष्ठराजस्तत्परज्येष्ठाभावादिति वाच्यम्, सर्वपूज्यादि
पूज्यगणेशान्यहीनत्वाच्च ज्येष्ठादिपूज्यसर्वपूज्यसंप्रदायदर्शनात् अन्यत्र
लिङ्गदैवतवद्गौणत्वात्, अच्युतम्, स्वानन्दवासित्वात्कैलासवैकुण्ठादि-
लोकगुणमयनाशात्मकत्वाच्च ।
सर्वसारनिर्णयग्रन्थे मया लोकनिर्णये
कथितमत्र न लिख्यते, ग्रन्थबाहुल्यभयात् । आविर्भूतं च सृष्ट्यादौ
प्रकृतेः पुरुषात्परम् । प्रकृतिः सर्वमयो, प्रकृष्ट पर्वाकसर्वाकृतित्वात् । पुरुषः
बैदैक: प्रकृतिमयपुरिशयत्वात्ताभ्यां परं, प्रकृतिपुरुषैकात्मकत्वात् ।
सृष्टयादौ प्रकृतिपुरुषसृष्टेरादावाविर्भूतं, तत्त्वमस्यात्म कशरीरत्वात् । एवं
नरगजाभेदैकदन्ता दिचिह्नयुक्तं यो नित्यं ध्यायति स योगी, बलैब्रह्मैकात्म-
कत्वात् । योगश्चित्तवृत्तिनिरोधः [पा० यो० पा० १ सू०२] चित्तं पञ्च-
विधम् । क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धमिति चित्तस्य भूमयः, व्यास-
कृतमाष्ये प्रतिपादितत्वात् [^१] । यत्र नरेण चित्तं क्षिप्तं तज्ज्ञानतया नाना.-
ज्ञानरम<flag>भ्र</flag>धारकत्वान्मूढम्, पिशाचतुल्यनरहृत्स्थत्वात् । मुमुक्षूणां चित्तं
विक्षिप्तं संमासारविषयांस्तिरस्कृत्य ब्रह्मपरं तदपि ब्रह्मानुभवहीनं, विषया-
सक्तत्वाद्ब्रह्मानुभवसुखहीनत्वान्नाना तपः परत्वाच्च । अन्नप्राणाद्यव्याकृत-
पर्यन्तानुभवयुक्मेकाग्रं चित्तं, सर्वेवैक्यसमाधिसुखयुक्तत्वात् । सत्यं ज्ञान-
मनन्तं ब्रह्मानुभवसुखयुक्तं निरुद्धाव्ख्यं, सर्वैक्यभावहीनत्वाद्ब्रह्मपरत्वाच्च ।
 
१ पातञ्जलयोगसूत्रेषु प्रथमापाइसदस्य प्रथमसूत्रभाष्ये द्रष्टव्यमेतत् ।