This page has not been fully proofread.

गणेशाथर्वशीर्षम् ।
 
ईश्वरः सर्वभोक्ता च चोरवत्तत्र संस्थितः ।
तदेवं मूषकः प्रोक्तो मनुजानां प्रचालक
मायया गूढरूपः स भोगान्सुभुङ्गेक्ते हि चोग्<flag>र</flag>वत्" ॥
इति स्मृतिभ्यः । रक्तम्, रक्तवर्णशरीरत्वात् । लम्बोदरम्, स्वोदरे
सर्वस्यापि प्रतिष्ठितत्वात्, स्वस्य न कस्याप्युद्वरस्थत्वात्, स्वोदरोद्भव-
सर्वजगत्वात्, स्वस्य न कस्याप्युदरभवत्वाच्च । तथा च-
" लम्बोदरोऽयमेकश्व वेदे संकथितोऽभवत् ।
न वयं तादृशा वेदे लम्बोदरप्रवाचकाः ॥
तस्योदरात्समुत्पलं नानाविश्वं न संशयः ।
नानाब्रह्म तथेशश्च अन्ते तत्र स्थितोऽभवत् ॥
मध्ये कलांशरूपेण क्रीडते गणनायकः ।
अतः सर्वादिपूज्यश्च सर्वपूज्यो बभूव ह ॥
सर्वेषां जनको माता तथा सर्वप्रदायकः ।
तत्र किं मंशयं विप्राः कुरुथ ब्रह्मणस्पतौ " ।
इति स्मृतिभ्यः । शूर्पकर्णकम् । गणेशो योगि मुखोद्गतजनकर्णमार्ग
हृद्वतः सन् झर्पवत्पापपुण्यरजो दूरी करोति ब्रह्मप्राप्तिकारकत्वात् ।
 
तद्यथा--
२४
 
रजोयुक्तं यथा धान्यं रजोहीनं करोति च ।
शूर्पं सर्वनराणां वै योग्यं भोजनकाम्यया ॥
तथा मायाविकारेण युक्तं ब्रह्म न लभ्यते ।
कत्वोपासनकं तस्य शूर्पकर्णस्य सुन्दर ॥
शूर्पकर्ण समाश्रित्य त्यक्त्वा मलविकारकम् ।
ब्रह्मैव नरजातिस्थो भवेत्तेन तथा स्मृतः ।
तेनायं शूर्पकर्णश्च वेदेषु कथितोऽभवत् ।
 
तं भजस्व विधानेन शान्तियुक्ता भविष्यसि " #
 
"
 
इति स्मृतिभ्यः । रक्तवाससम् सदा रक्तवस्त्र प्रियत्वात् । रक्तगन्धा-
नुलिप्त ङ्गं रक्तपुष्पैः सुपूजितामिति, रकवर्णप्रियत्वात् । मौद्गले पञ्चवर्ण-
वरप्रदो गणेशो बमूव । तत्र रक्तरङ्गेण पुनस्तपः कृत्वा रक्तरङ्गप्रियः
सदा कृतः, स्ववरदानरक्षणार्थत्वात् रक्तवर्णप्रिय इति । भक्तानुकम्भि-