2023-03-01 02:23:10 by Aaboli
This page has been fully proofread once and needs a second look.
सभाष्यम् ।
रक्तगन्धानुलिप्तङ्गं रक्तपुष्पैः सुपूजितम् ॥
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् ।
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ॥
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ ९ ॥
एकदन्तमिति । एकदन्तं पूर्वोक्तार्थात्मकदक्षिणदन्तयुक्तम् । " भग्न
वामरद " इति स्मृतेः । चतुर्भुजयुक्तत्वात् ।
" स्वर्गेषु देवता<flag>श्चा</flag>यं पृथ्व्यां नरांस्तथाऽतले ।
असुरान्नागमुख्यां<flag>श्च</flag> स्थापयिष्यति बालकः ॥
तत्त्वानि चालयन्विप्रास्तस्मान्नाम्ना चतुर्भुजः ।
चतुर्णां विविधानां च स्थापकोऽयं प्रकीर्तितः "
इति स्मृतेः । दक्षिणोर्ध्वहस्तादारभ्य दक्षिणाधोहस्तपर्यन्तं पाशा-
ङ्कुशदन्तवरदानि धारयति, स्वभक्तरक्षणार्थत्वात् ।
" पाशं मोहमयं तस्य स्वभक्तमोहनाशनम् ।
नियन्त्राख्यं तथा ब्रह्म अङ्कुशश्च महात्मनः ॥
दुष्टनाशकरं ब्रह्म दन्तः सर्वारिनाशकृत् ।
वरं सकामिकानां च कामदं ब्रह्म तत्स्मृतम् " ॥
इति स्मृतेः । मूषकध्वजम् । सर्वान्तर्यामी सर्वजन्तुहृद्गतः सन् सर्व-
जन्तुकृद्भोगभोक्ता चोरो जन्त्वज्ञातसर्वस्वहारकत्वात् ( च्च ) । स एव
गणेशसेवार्थं मूषको बभूव । मुष् स्तेये इति धात्वर्थात् । तद्यथा–
" मूषकं व्यापकाख्यं च पश्यन्ति वाहनं परम् ।
तेन मूषकवाहोऽयं वेदेषु कथितोऽभवत् ॥
मुषस्तेये तथा धातुर्ज्ञातव्यस्तेयबलब्रह्मधृक् ।
नामरूपात्मकं सर्वे तत्रसगुलवं तत्रसद्ब्रह्म वर्तते ॥
नामरूपेषु ये भोगास्तेषां भोक्तृतया स्थितः ।
भोगेषु भोगभोक्ता च ब्रह्माकारेण वर्तते ॥
अहंकारयुतास्तं वै न जानन्ति विमोहिताः ।
वयं भोकाक्तार एवं ते मानयन्ति विशेषतः ॥
रक्तगन्धानुलिप्तङ्गं रक्तपुष्पैः सुपूजितम् ॥
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् ।
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ॥
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ ९ ॥
एकदन्तमिति । एकदन्तं पूर्वोक्तार्थात्मकदक्षिणदन्तयुक्तम् । " भग्न
वामरद " इति स्मृतेः । चतुर्भुजयुक्तत्वात् ।
" स्वर्गेषु देवता<flag>श्चा</flag>यं पृथ्व्यां नरांस्तथाऽतले ।
असुरान्नागमुख्यां<flag>श्च</flag> स्थापयिष्यति बालकः ॥
तत्त्वानि चालयन्विप्रास्तस्मान्नाम्ना चतुर्भुजः ।
चतुर्णां विविधानां च स्थापकोऽयं प्रकीर्तितः "
इति स्मृतेः । दक्षिणोर्ध्वहस्तादारभ्य दक्षिणाधोहस्तपर्यन्तं पाशा-
ङ्कुशदन्तवरदानि धारयति, स्वभक्तरक्षणार्थत्वात् ।
" पाशं मोहमयं तस्य स्वभक्तमोहनाशनम् ।
नियन्त्राख्यं तथा ब्रह्म अङ्कुशश्च महात्मनः ॥
दुष्टनाशकरं ब्रह्म दन्तः सर्वारिनाशकृत् ।
वरं सकामिकानां च कामदं ब्रह्म तत्स्मृतम् " ॥
इति स्मृतेः । मूषकध्वजम् । सर्वान्तर्यामी सर्वजन्तुहृद्गतः सन् सर्व-
जन्तुकृद्भोगभोक्ता चोरो जन्त्वज्ञातसर्वस्वहारकत्वात् ( च्च ) । स एव
गणेशसेवार्थं मूषको बभूव । मुष् स्तेये इति धात्वर्थात् । तद्यथा–
" मूषकं व्यापकाख्यं च पश्यन्ति वाहनं परम् ।
तेन मूषकवाहोऽयं वेदेषु कथितोऽभवत् ॥
मुषस्तेये तथा धातुर्ज्ञातव्यस्तेय
नामरूपात्मकं सर्

वयं भो