This page has not been fully proofread.

सभाष्यम् ।
 
रक्तगन्धानुलिप्तङ्गं रक्तपुष्पैः सुपूजितम् ॥
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् ।
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ॥

एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ ९ ॥

FETS
 
एकदन्तनिमिति । एकदन्तं पूर्वोक्तार्याथात्मकदक्षिणदन्तयुक्तम् । " भग्न
वामरद " इति स्मृतेः । चतुर्भुजयुक्तत्वात् ।
 
८.
 
3
 
w
 
(6
 
1 PP
 
'भन
 
" स्वर्गेषु देवता<flag>श्वाचा</flag>यं पृथ्व्यां नरांस्तथाऽले ।
असुरान्नाग मुख्यां<flag>श्च</flag> स्थापयिष्यति बालकः ॥
तत्त्वानि चालयन्विप्रास्तस्मान्नाम्ना चतुर्भुजः ।
चतुर्णीणां विविधानां च स्थापकोऽयं प्रकीर्तितः "
इति स्मृतेः । दक्षिणोर्ध्वहस्तादारभ्य दक्षिणाधोहस्तपर्यन्तं पाशा-
ङ्कुशदन्तवरदानि धारयति, स्वभक्तरक्षणार्थत्वात् ।
 
" पाशं मोहमयं तस्य स्वभक्तमोहनाशनम् ।
नियन्त्राख्यं तथा ब्रह्म अङ्कुशश्च महात्मनः ॥
दुष्टनाशकरं ब्रह्म दन्तः सर्वारिनाशकृत् ।

वरं सकामिकानां च कामदं ब्रह्म तत्स्मृतम् " ॥
 
इति स्मृतेः । मूषकध्वजम् । सर्वान्तर्यामी सर्वजन्तुहृद्गतः सन् सर्व-
जन्तुकृद्भोगभोक्ता चोरो जन्त्वज्ञात सर्वस्वहारकत्वातूत् ( च्च ) । स एव
गणेशसेवार्थ बूथं मूषको बभूव । मुप्ष् स्तेये इति धात्वर्थात् । तद्यथा-
मूषकं व्यापकाख्यं च पश्यन्ति वाहनं परम् ।
तेन मूषकवाहोऽयं वेदेषु कथितोऽभवत् ॥
मुषस्तेये तथा धातुर्ज्ञातव्यस्तेयबलधृक् ।
नामरूपात्मकं सर्वे तत्रसगुल वर्तते ॥
नामरूपेषु ये भोगास्तेषां भोक्तृतया स्थितः ।
भोगेषु भोगभोक्ता च ब्रह्माकारेण वर्तते
अहंकारयुतास्तं वै न जानन्ति विमोहिताः ।
वयं भोकार एवं ते मानयन्ति विशेषतः ॥
 

 
TH TEREP