This page has been fully proofread once and needs a second look.

गणेशाथर्वशीर्षम् ।
 
एकदन्तायेति । एकदन्ताय एकशब्दाख्या माया। दन्तशब्दाख्यो
मायिकः तयोर्योग एकदन्तः तस्मै । विद्महे जानीमहे । सदा सर्वप्रद-
त्वात् । तदेव मौद्गले–
 
"एकशब्दात्मिका माया तस्याः सर्वं समुद्भवम् ।
भ्रान्तिदं मोहदं पूर्णं नानाखेलात्मकं किल ॥
दन्तः सत्ताधरस्तत्र मायाचालक उच्यते ।
बिम्बेन मोहयुक्तश्च स्वयं स्वानन्दगो भवेत् ॥
माया भ्रान्तिमयी प्रोक्ता सत्ता चालक उच्यते ।
तयोर्योगे गणेशोऽयमेकदन्तः प्रकीर्तितः ॥ " इति ॥
वक्रतुण्डाय । जगत्सर्वजनसाधारणं, मनोवाणीमयत्वात् । तस्माद्व-
क्रमात्मरूपं मनोवाणीहीनत्वात्तदेव मुखं यस्य स वक्रतुण्डो जगन्मय-
कण्ठाध आत्मात्मकमस्तकत्वात्तस्मै । तद्यथा मौद्गले–
 
"बिम्बं माया<flag>य</flag>तं वक्रं मोहितं सिद्धिबुद्धिगम् ।
तद्भावं हन्ति तुण्डेन तेनायं वक्रतुण्डकः ॥
माया मुखं मोहयुतं तस्माद्वक्रमिति स्मृतम् ।
परं ब्रह्म तयोर्योगे वक्रतुण्डोऽय<flag>कु</flag>च्यते ॥
कण्ठाधो मायया युक्तो मस्तकं ब्रह्मवाचकम् ।
वक्राख्यं तस्य <flag>विघ्नेश</flag> तेनायं वक्रतुण्डकः ॥ " इति ॥
धीमहि ध्यायेम इति । तन्नो दन्ती प्रचोदयात् । तद्ब्रम्हात्मको दन्ती
दन्तोऽस्यास्तीति सर्वसत्तात्मकत्वात् । स्वभक्त्यै प्रचोदयात् प्रेरयतु, बुद्धि-
पतित्वात् । अयं गायत्रीमन्त्रोऽपि सर्वसिद्धिप्रदायकः । गणेशः गायकं
त्रायतीति व्युत्पत्तिबलात् ॥ इति गायत्रीमन्त्रप्रतिपादनात्मकोऽष्टमः
खण्डः ॥ ८ ॥
 
एवमादौ नाममन्त्रं मध्य एकाक्षरमन्त्रमन्ते गायत्रीमन्त्रं च इति
त्रिविधं मन्त्रं प्रतिपाद्य तद्ध्यानार्थमाह-
एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् ।
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् ।