This page has not been fully proofread.

सभाष्यम् ।
 
शमूर्तिमयजपस्य गणेशसंतुष्टिकारकत्वात् । विद् ज्ञाने इति धातुसाम-
र्थ्यात् एकाक्षरमन्त्रस्तत्वमस्यात्मकगणेशमयः प्रतिपादितः । यन्त्रस्थ -
मन्त्रपूजनस्य सर्वसिद्धिप्रदत्वान्मन्त्रमयमूर्तेः सर्वशास्त्र प्रतिपादितत्वाच्च ।
तत्रोंकारयुक्त ओंकारशक्ति विहारजगन्मयप्रतिपादितत्वात् पूर्वोक्ततत्त्व-
मस्यात्मकोंकारात्मकद्विविधसामर्थ्ययुक्तत्वं मन्त्रस्य प्रतिपादितम्, तदु-
पासनस्य प्रत्यक्षगणेशसमत्वात् । गणक ऋषिः । अत्रर्ष्यादिन्यासा
मन्त्रशास्त्रोक्ता ग्राह्याः, तस्य वेदोपाङ्गत्वात् । तद्यथा-ॐ अस्यैकाक्षर-
गणपतिमन्त्रस्य, गणक ऋषिः, निचृद्गायत्री छन्दः, गगपतिर्देवता, गं
बीजम्, ॐ शक्तिः गणपतिप्रीत्यर्थे सकलाभीष्टसिद्ध्यर्थे च जपे विनि
योगः । गणकऋषये नमः शिरसि । निचुद्वाचृद्गायत्री छन्दसे नमो मुखे ।
गणपतिदेवतायै नमो हृदये । गंवीबीजाय नमो गुह्ये । ॐ शक्तये नमः
पादयोः । अथ षडङ्गन्यासः । ॐ गाम् अङ्गुष्ठाभ्यां नमः । ॐ गीं
तर्जनीभ्यां नमः । ॐ गूं मध्यमाभ्यां नमः । ॐ गैम् अनामिकाम्भ्यां
नमः । ॐ गौं कनिष्ठिकाभ्यां नमः । ॐ गः करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः कर्तव्य इति । वक्ष्यमाणं ध्यानं कृत्वा मानसैः पञ्चो-
पचारैः पूजयेत् । तद्यथा-ॐ लं पृथिव्यात्मने गणेशाय गन्धं [^१]समर्प-
यामि । हम् आकाशात्मने गणेशाय पुष्पं स० । ॐ यं वाय्वात्मने
गणेशाय धूपं स० । ॐ रं तेजात्मने गणेशाय दीपं स ० । ॐ वम् अमृ-
तात्मने गणेशाय नैवेद्यं समर्पयामि । इति पञ्चभूतबीजात्मकपश्चोपचा-
रार्पणं मानसी पूजा कथ्यत इति संक्षेपः । सर्वे मन्त्र शास्त्रोक्तविधिव-
स्कार्यभू, शीघ्रसिद्धिप्रदत्वात् ॥ इति गणेशविद्यात्म कार्यप्रतिपादकः
 
सप्तमः खण्डः ॥ ७ ॥
 
एवं गणेशविद्यां प्रतिपाद्य गणेशगायत्रीमन्त्रं प्रकटयन्नाह -
एकदन्ताय विद्महे वक्रतुण्डाय धीमहि ।
 
तन्नो दन्ती प्रचोदयात् ॥ ८ ॥
 
१ अत्र कल्पयामीति युक्तमिति प्रतिभाति । समर्पणं तु प्रत्यक्षतया अर्प्यमा-
णस्योपचारस्यैव भवति न मानसस्य अतः कल्पयामीत्येव युक्तम् । अन्यत्रापि
मानसपूजायां " लं पृथिव्यात्मने गन्धं कल्पयामि इति दृश्यते " इति दिक् ।
२ अत्र 'तेज आत्मने ' इति पाठ : सावीयानिति भाति ।