This page has been fully proofread once and needs a second look.

गणेशाथर्वशीर्षम् ।
 
नादः संधानम् । सꣳहिता संधिः ।
सैषा गणेशविद्या । गणक ऋषिः ।
निचृद्गायत्री छन्दः । गणपतिर्देवता । ॐ गं ॥ ७॥
गणादिमिति । पूर्वं प्रथमं गणादिं गकारं गणशब्दादिभूतत्वात् ।
उच्चार्य स्वमुखेनोच्चारणं कृत्वेति । तदनन्तरं वर्णादिः । वर्णा [^१]अक्षराणि
तदादिरकारः, तस्य आदौ कथितत्वात् । तस्मादकारात्परतरोऽनुस्वारः।
गकार आदिस्तस्मात्परोऽनुस्वारः परतरः कीदृशोऽनुस्वारः अर्वेन्दुल-
सितः, सानुनासिकत्वात् । एवमेकाक्षरमन्त्रात्मिकां विद्यां प्रतिपाद्य
सशक्तिकमन्त्रं प्रकटयन्नाह- -तारेणेति । तारेण प्रणवेन [^२]ऋद्धं
युक्तम् । प्रणवयुक्तैकाक्षरमन्त्रत्वात् । तत्राऽऽदौ प्रणवमुच्चारणम् ।
" आदौ प्रकृतिमुच्चार्य पश्चात्पुरुष उच्यते " इति स्मृतेः । रुद्रयामले
एकाक्षरगणेशकवचे मन्त्रोद्धारः कृतः । तत्र प्रणवस्य शक्तित्वप्रतिपा-
दनात् । तद्यथा–" गं वीजं शक्तिरोंकारः सर्वकामार्थसिद्धये " । इति ।
तव गणेशस्य <error>मनुस्वरूपं</error> मन्त्रस्वरूपमेतत्, सर्वसिद्धिप्रदगणेशानुभव-
प्रकाशकसामर्थ्ययुक्तत्वात् । एवं 'गणादिं पूर्वमुच्चार्य' इत्यादि 'तारेण
ऋद्धम्' इत्यन्तेन संकेतश्रुतिवाक्यप्रतिपादितमन्त्रं जना न ज्ञास्यन्ति,
मन्दबुद्धित्वात् । तदर्थं स्वयमेव सुलभतया तदेवाऽऽह-गकार इति ।
पूर्वरूपं आदिप्रोक्तरूपं गकारः, मध्यमरूपमकारः, अन्त्यरूपमनुस्वारः,
उत्तररूपनुस्वारोत्तररूपं बिन्दुः, सानुनासिकात्मकत्वात् । तारशब्दस्तु
न वर्ण्यते, स्फुटत्वात् । एतेषां भिलान्नानां गकारादिचतुर्णीणां संधानमेकी-
करणसाधनं नादः, नादप्रेरितैक भावोच्चारणयोग्यसामर्थ्यात् । एतेषा
नादप्रेरितानां संधिः संमीलनं संहिता, यथाक्रमोच्चारणयोग्यसाम-
र्थ्यात् । या 'गणादिं पूर्वमुच्चार्य' इत्यादि 'तारेण ऋद्धम्' इत्यन्तेन
पूर्वं प्रतिपादिता सैपाषाऽधुना 'गकारः पूर्वरूपम्' इत्यादि 'संहिता संवि.धिः'
इत्यन्तेन प्रतिपादितत्वात् । गणेशविद्या गणेशज्ञानप्रदा, मन्त्रात्मकगणे-
१ अत्र 'वर्णा अक्षरास्तदादिरकारोकारादिवर्णकथित्वात्' इति सर्वेषणाष्वादर्श-
पुस्तकेषु दृश्यते तत्<flag>त्प्रा</flag>मामादिकमिति प्रतिभाति । अत्र सर्वत्रापि 'रुद्धम्' इति
इदानींतनानां केषांचित् वैदिकानां पाठः । अर्थस्त्वेक एव ।