This page has been fully proofread once and needs a second look.

सभाष्यम् ।
 
तिलयकालभावहीनत्वात् । त्वं मूलधारस्थितोऽसि नित्यम् । गुदचक्रं
प्रणवमयं तत्र स्थितः, सर्वचक्रमूलाधारमयत्वात् । मूलधारसंज्ञाख्यं,
सदाखण्डस्वानन्दघनत्वात् । नित्यं, त्रिगुणभाववर्जितत्वाच्च । त्वं शक्ति-
त्रयात्मकः । जगदुत्पतिस्थितिलयत्रिविधशत्क्याधारात्मकत्वात् । त्वां
योगिनो ध्यायन्ति नित्यम् स्वात्मानन्दब्रह्मैक्यं समाधिना कृत्वा जीव-
न्मुक्ततया देहप्रारब्धमोगप्रतीक्षका योगिनस्त्रैगुण्यात्मकं त्वां नित्यममृ-
तात्मकत्वाद्ध्यायन्ति, स्वदेहमूलाधारचक्रस्थध्यानसुलभत्वात् । त्वं ब्रह्मा
जगत्सृष्टिनिर्माणकर्ता, रजोविशिष्टप्रवणत्वात् । त्वं विष्णुर्जगत्पाल<flag>कः</flag>,
सत्त्वविशिष्टत्वात् । त्वं रुद्रो जगत्संहारकः, तमोविशिष्टत्वात्, त्वमि-
न्द्रस्त्रिभुवनैश्वर्यभोक्ता, परमैश्वर्यविशिष्टत्वात् । त्वमग्निः सर्वयज्ञभोक्ता,
सर्वदेवमुखतृप्तिकारकविशिष्टत्वात् । त्वं वायुः सर्वप्राणभूतः, सर्वजन-
प्राणप्रवेशस्थापनोत्क्रमणविशिष्टत्वात् । त्वं सूर्य उदयास्तदिवसरात्रि-
प्रकाशकः, सर्वजनकर्मप्रवर्तकविशिष्टत्वात् । त्वं चन्द्रमाः सर्वौषधिजी-
वनात्मकः, जगदन्नमयविशिष्टत्वात् । ब्रह्मादिचन्द्रपर्यन्तानामष्टानां
स्वस्वव्यापारप्रवर्तकात्मकः । श्रुतयो न लिख्यन्ते, सर्वप्रसिद्धत्वात् ।
एतदन्तर्गतदेवदेवेश्वरा ज्ञातव्या अष्टविशिष्टगणेशप्रतिपादनत्वाद्विचार-
तदन्तर्गतसंभवाच्च । त्वं ब्रह्म सर्वजन बुद्धिस्थजीवमयः, नानास्वभावप्रकृ-
तिभोक्तृविशिष्टत्वात् । भूः भूर्लोकस्त्वमेव, तद्विशिष्टत्वात् । भुवः <flag>भु</flag>वर्लो-
कस्त्वमेव, तद्विशिष्टत्वात् । स्वः स्वर्लोकस्त्वमेव, तद्विशिष्टत्वात् । ॐ
प्रणवस्त्वमेव, सर्वमूलाधारचक्रस्थितविश्वचालकत्वात् ॥ इत्यध्यात्म-
प्रकाशकः षष्ठः खण्डः ॥ ६ ॥
 
एवं साधिदैवताध्यात्मप्रकारयुक्तत<flag>त्त्वस्या</flag>त्मकं प्रणवात्मकं च
गणेशं प्रतिपाद्य तदनुमवप्रकाशकगणेशविद्यां प्रकटयन्नाह -
गणादिं पूर्वमुच्चार्य वर्णादींस्तदनन्तरम् ।
अनुस्वारः परतरः । अर्धेन्दुलसितम् ।
तारेण रुद्धम् । एतत्तव मनुस्वरूपम् ।
गकारः पूर्वरूपम् । अकारो मध्यमरूपम् ।
अनुस्वारश्चान्त्यरूपम् । बिन्दुरुत्तररूपम् ।