This page has been fully proofread once and needs a second look.

॥ ॐ नमः परमात्मने ।
 
भो: भोः सहृदया आर्यदेशीयप्राचीनविद्यावैभवमुररीकुर्वन्तो महाशया विदित-
मस्तु तत्रभवतां भवताम् । यत्किल पुण्याख्यपत्तने देव्याः सरस्वत्या विलासस्थान-
मिव बहुसाहसिकधनव्ययेन आनन्दाश्रम इत्याख्यं भवनं निर्मापयता महोयेन
महादेव चिमणाजी आपटे इति सुगृहीतनामधेयेन न केवलं भारतवर्षीयाणामेव
अपि तु अखिलस्य जगतोऽप्यतीवोपकृतम् । तस्य च उद्देशादिकं पूर्वमेव विज्ञाप-
नपत्रद्वारा सर्वान् प्रत्यावेदितप् । <flag>बहुना</flag> परिश्रमेण संगृहीतानि च बहुनि प्राचीन-
संस्कृतग्रन्थपुस्तकानि । मुद्रायन्त्रमपि तत्रैव संस्थापितम् । अपसिद्धग्रन्थावल्या
मुद्रणमप्यारब्धम् । <flag>क्रमश:</flag> प्रचयगमना भविष्यन्ति च बहवो ग्रन्थाः ॥
 
तत्र तावत् "आनन्दाश्रमग्रन्थावल्याः" पारम्भे अस्य महतः कार्यस्य विघ्न-
विघातोपशमनार्थं गणपतिपूजनमिवेदं मणेशाथर्वशीर्षं सभाष्यं निवेशितम् । अस्य
ग्रन्थस्य संशोधनं पुण्यपत्तनस्थैर्बहुभिर्विद्वद्वरैरारभ्य निःसारमिदं भाष्यमिति
कृत्वोपोक्षितम् । तदनन्तरं मत्सुह्रुद्वरेणाऽऽनन्दाश्रमाधिपतिनाऽभ्यर्थितेन कार्यान्तर-
व्यापृतत्वादलब्धबहुलावकाशेनापि मया श्लाघनीयस्यास्य <flag>लोकोपकारिक स्य</flag>
यथाशक्ति किमपि साहाय्यं कर्तव्यमिति कृत्वाऽस्य ग्रन्थस्य संशोधनं कथंकथ
मपि प्रारब्धम् । तत्र च पञ्च आदर्शपुस्तकान्युपलब्धानि । तानि <flag>यथा</flag>-
 
क. संज्ञितं - - शालिवाहनशके १७३८ धातृनामसंवत्सरे मार्गबहुल ५
म्यां लिखितं महादेव चिमणाजी आपटे इत्येतैः संगृही-
तमेकम् ।
 
ख. संज्ञितम् --इंदूरनिवासिभिः भाऊसाहेब किबे इत्येतैः प्रेषितम् । ना-
स्योपरि शकादिकं किश्चित् ।
 
ग. संज्ञितम् -- उम्बरगांवनिवासिभिः विनायक, भिकाजी पिम्पुटकर इस्त्य-
मिघैः प्रेषितम् । संवत् १९३८ वृषमनामसंवत्सरे कार्तिक
शु० द्वितीयायां लिखितम् ।
 
घ. संज्ञितं -- वटोदरनिवासिभि: बाप्पासाहेब मैराळ इत्येतैः प्रेषितं
शकहीनं च ।
 
ङ. संज्ञितं - - चिंचवडनिवासिनां चिंतामणभट्ट कोशे इत्येतेषामेकं
शके १७९९ ईश्वरनामसंवत्सरे चैत्र शु० प्रतिपाद लिखि
तम् ।