This page has not been fully proofread.

गणेशाथर्वशीर्षम् ।
 
न्यायवत्सत्यज्ञानोभयाभेदमयमुभयप्रकाशतन्मध्यप्रतिपादनत्वात् । त्वं प्र-
त्यक्षं ब्रह्मासि, चिन्तामणिनामा, चित्तप्रकाशकत्वात् । प्रत्यक्षं हृद्यवस्थितं
त्वां पश्यामीति स्वानुभवप्रदर्शनात् । "चिति स्मृतौ " इति धातुपाठात्
"इदिनो नुम्" इति पाणिनिसूत्राच्चिन्तायां स्मृत्यां मणिरिव तत्प्र-
काशकः । सर्वहृद्यवस्थितं ब्रह्म त्वमेवेति भावः । एवं सत्यं ब्रह्म गुहायां
निहितं प्रतिपादितम् । "द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च मर्त्यं
चामृतं च स्थितं च यच्च सच्च त्यच्च " इति श्रुते ।
" सच्च त्यच्च
तयोर्योगे सत्त्वं ब्रह्म " इति श्रुतेश्च । एवं ज्ञानं ब्रह्मातेमेति प्रतिपादयन्नाह ।
त्वं ज्ञानमयः । सच्चिदानन्दाद्वितीयात्मक सत्यब्रह्मणोऽभित्रःन्नः सदा निर्वि-
कल्पात्मकत्वात्सदेकमयत्वात्सत्यब्रह्मणि सच्चिदानन्दाद्वितीयेषु स्वस्व-
रूपज्ञानप्रदत्वात् । 'ज्ञा' अवबोधन इति धातुपाठात्स्वयं सर्वज्ञः, स्वस्
ज्ञात्रभावात् । ज्ञानेन ज्ञायते सर्वे ज्ञानवं ज्ञानं केन न ज्ञायते ज्ञानात्रज्ञाना-
भावादिति । विज्ञानमयोऽमिसि सर्वज्ञभावं त्यक्त्वा स्वमहि<flag>म्नि</flag> स्थितोऽसि,
केवलज्ञानबह्ममयत्वात् । न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते, अवि-
नाशित्वात् । "न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कु-
तोऽयमग्नि । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति" इति
श्रुतेः । अनन्तं ब्रह्म । सत्यज्ञानैक्यात्म कमात्मस्वरूपं हृदि तत्त्वमस्यात्म-
कार्प्रतिपादकमहावाक्यात्सत्यं, त्वंपदाथर्मयत्वात् तज्ज्ञानं तत्पदार्थमय-
त्वादनन्तमसिपदार्थमयस्त्रिविधपदार्थैक्यात्म यात्मक ब्रह्मप्रतिपादनार्थत्वात् ।
निहितं गुहायां गुहा बुद्धिस्तस्यां निहितम्, हृद्यवस्थित बुद्धिपतित्वात् ।
पञ्चचित्तव्यापारहर्षविषादममभावयुक्ततत्तव्यापारसिद्धिप्रसिद्धिपतित्वा-
गणेशो हृयवस्थितः । "सत्यं ज्ञानमनन्तं ब्रह्म" इति श्रुत्यनुभवैक्यात्म-
गणेशत्वात् । परमे व्योमनिति दहरोपामनायें तदेव कथ्यते । "अथ
यदिदमस्मि ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्तराकाशमनस्मि-
न्यदन्तस्तदन्वेष्टव्यम् । तद्वाव विजिज्ञामितव्यं स ब्रूयायावान्या अपमा
काशस्ता वानेषोऽन्तहृदय आकाश उमे अस्मिन्यावापृथिवी अन्तरेव
समाहित । एष आत्मा अपहताना विजरो विमृत्युको...
 
१६