2022-12-26 02:34:59 by Aaboli
This page has been fully proofread once and needs a second look.
सभाष्यम्
त्वं वाङ्मयस्त्वं चिन्मयस्त्वमानन्दमयस्त्वं ब्रह्ममयस्त्वं
सच्चिदानन्दाद्वितीयोऽसि । त्वं प्रत्यक्षं ब्रह्मासि । त्वं ज्ञा-
नमयो विज्ञानमयोऽसि ॥ ४ ॥
त्वमिति । अत्र " सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां
परमे व्योमन्" ( तै० व० २ अ० १ ) इतिमहावाक्यप्रतिपादकश्रु-
त्यर्थं प्रतिपादयाति । निहितं गुहायामिति, हृद्यवस्थितब्रह्मत्वात् ।
वाङ्मयः, वाणीकथितनामरूपमयत्वात् । "एषां पृथिव्या आपोऽपा<flag>मो</flag>
पधयस्तासां पुरुषस्तस्य वाक् " इति श्रुतेः । त्वं चिन्मयः नामरूपाहं-
कृतियुक्तो जीवः, तद्भोगकृतत्वात् । " स एव इह प्रविष्ट आनखाग्रेभ्यो
यथाक्षुरः क्षुरेऽवहितः स्याद्विश्वंभरो वा विश्वंभरकुलाये । तं न पश्य-
त्यकृत्स्नो हि सः । प्राणमेव प्राणो नाम भवति वदन्वाक् पश्यंश्चक्षुः
शृण्वञ्छ्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव स योऽत एकै-
कमुपास्ते न स वेदाकृत्स्नो ह्येषोऽत एकैकेन भवति आत्मेत्येवोपासीत ।
अत्र ह्येते सर्व एकं भवति तदेतत्पदनीयमस्य सर्वस्य यदयमात्माऽनेन
ह्येतत्सर्वं वेद यथा ह वै पदेनानुविन्देदेवं <flag>कीर्तिश्लोकं</flag> विन्दते य एवं
वेद" इति । "तत्सृष्ट्वा तदेवानुप्राविशत् " इत्यादिश्रुतिभ्यः त्वमानन्दमय-
वाङ्मयप्रकृतिमयचिन्मयपुरुषमयस्ताभ्यां सृष्ट आनन्द: सुषुप्त्यवस्थात्म
कस्त्वन्मयः, पञ्चकोशबीजत्वात् । "आनन्दो ब्रह्मेति व्यजानात्" [तै०
व० ३ अ० ६ ] इति श्रुतेः । त्वं ब्रह्ममयः, वाङ्मयचिन्म-
यानन्दमयैक्यात्मकत्वात् सदा सत्यपदात्मकत्वाच्च । एतेषां समुदायार्थै-
क्यभावप्रतिपादनार्थत्वान्महावाक्यात्मकमाह-–त्वं सच्चिदानन्दाद्वितीयोऽ-
सि इति । सत् प्रकृतिभावदोषहीनत्वात्, चित् चैतन्यात्मकत्वात्, आनन्द
आसमन्तात्त्र्यवस्थानन्दात्मकत्वात्, अद्वितीयः सच्चिदानन्दभेदशून्य-
त्वादिति । इदं महावाक्यं गौणं षोडशमहावाक्यप्रामाण्यात् । चत्वारि
महावाक्यानि मुख्यानि, तत्त्वमस्यादीनि केवलयोगप्रतिपादनवेदान्त-
सीमाभूतत्वात् । अनन्तं ब्रह्मेति प्रतिपादयन्नाह । त्वमिति । देहलीदीप-

क्यभावप्रतिपादनार्थत्वान्महावाक्यात्मकमाह