This page has not been fully proofread.

१४
 
गणेशाथर्वशीर्षम् ।
 
S
 
अव त्वं माम् । अव वक्तारम् । अव श्रोतारम् ।
अव दातारम् । अव धातारम् । अवानूचानमव शिष्यम् ।
अव पश्चात्तात् । अव पुरस्तात् । अवोत्तरात्तात् ।
अव दक्षिणाचातू । अव चोर्ध्वात्तात् । अवाधरात्तात् ।
सर्वतो मां पाहि पाहि समन्तात् ॥ ३ ॥
 
अवति । त्वं साक्षात्प्रत्यक्षं तत्वमस्यात्मकः, अत्तो मामव । कंतस-
त्यमापिणं धर्मार्थकाममोक्षबलभा वार्थिनं मां नानाविनसमुदायाद्रक्षेति
स्वप्रतिज्ञापालको भव, भक्ताचीनत्वात् । अवेति । अत्र अव त्वं माम्
अव वक्तारम् इत्यादिपदेष्वसविराषः । एवं सर्वत्र ज्ञातव्यम् । वेदे-
च्छायाः प्रमाणत्वात् । वक्तारं मां त्वद्रूपप्रतिपादकं तद्नुष्ठानफलवक्तारं
च यथार्थप्रदो भव, मदीयकृतफलश्रुतिभागप्रदत्वात् । श्रोतारं मां मत्कता-
थर्वशीर्षादित्वत्स्तुतियथार्थपाठकनानाजनपरीक्षार्थं तच्छ्रवणकर्तारमव,
यथाऽर्थश्रोतृप्रियत्वात् । दातारं अथर्वशीर्षादित्वदुपासनदातारं मामव,
यथाऽथर्वशीर्ष परंपरा संप्रदायप्रवर्तकप्रियत्वात् । धातारं त्वत्प्रियकर्मो-
पासनज्ञानयोग साधन स्रटारं मामव, यथार्थसाधनप्रियत्वात् । अनूचानं
त्वत्प्रियान्यर्षिप्रोक्तमार्गभक्तं कदाचित् भ्रान्ततया संशययुक्तं तत्संशय-
नाशकारकं मामव, स्वभक्तभ्रान्तिनाशकप्रियत्वात् । शिष्यम्, मद्बु-
द्धिस्थेन त्वयोपदिष्टत्वात् । ज्ञानशिक्षाशीलं मामव, स्वशिष्यप्रियत्वात् ।
पश्चात्तात् त्वद्भक्तिशीलनाशकनानाविष्नेभ्यो मत्पृष्ठभागदिकस्थितेभ्यो
मामव, स्वभक्ताज्ञातविघ्ननाशकत्वात् । तद्वत्पुरस्तो मामव इति
तद्दुत्तरदक्षिणोधरा ज्ञातव्याः । दशदिग्रक्षण प्रार्थना प्रतिपादकत्वादे-
कार्यः । सर्वतो विदिशान्तरबाह्यादिनानास्थानस्थितविघ्नेभ्यो मां पाहि
पाहि । आदराद्वीप्स । समन्तावलाण्डान्तरगतभवात्साहीति भावः ॥
इति तृतीयः खण्डः ॥ ३ ॥
 
एवं ऋतसत्यशील रक्षणात्मकप्रार्थनां विधाय हरिस्थं बुद्धिपरबुद्धि-
चालकं नानासिद्धिप्रदायकं च गणेशं प्रार्थयनाह -