2022-12-22 02:46:47 by Aaboli
This page has been fully proofread once and needs a second look.
गणेशाथर्वशीर्षम् ।
अव त्वं माम् । अव वक्तारम् । अव श्रोतारम् ।
अव दातारम् । अव धातारम् । अवानूचानमव शिष्यम् ।
अव पश्चात्तात् । अव पुरस्तात् । अवोत्तरात्तात् ।
अव दक्षिणात्ता<error>तू</error> । अव चोर्ध्वात्तात् । अवाधरात्तात् ।
सर्वतो मां पाहि पाहि समन्तात् ॥ ३ ॥
अवेति । त्वं साक्षात्प्रत्यक्षं तत्वमस्यात्मकः, अत्तो मामव । ऋतस-
त्यभाषिणं धर्मार्थकाममोक्षब्रह्मभावार्थिनं मां नानाविघ्नसमुदायाद्रक्षेति
स्वप्रतिज्ञापालको भव, भक्ताधीनत्वात् । अवेति । अत्र अव त्वं माम्
अव वक्तारम् इत्यादिपदेष्वसंधिरार्षः । एवं सर्वत्र ज्ञातव्यम् । वेदे-
च्छायाः प्रमाणत्वात् । वक्तारं मां त्वद्रूपप्रतिपादकं तदनुष्ठानफलवक्तारं
च यथार्थप्रदो भव, मदीयकृतफलश्रुतिभागेप्रदत्वात् । श्रोतारं मां मत्कृता-
थर्वशीर्षादित्वत्स्तुतियथार्थपाठकनानाजनपरीक्षार्थं तच्छ्रवणकर्तारमव,
यथाऽर्थश्रोतृप्रियत्वात् । दातारं अथर्वशीर्षादित्वदुपासनदातारं मामव,
यथाऽथर्वशीर्षपरंपरासंप्रदायप्रवर्तकप्रियत्वात् । धातारं त्वत्प्रियकर्मो-
पासनज्ञानयोगसाधनस्रष्टारं मामव, यथार्थसाधनप्रियत्वात् । अनूचानं
त्वत्प्रियान्यर्षिप्रोक्तमार्गभक्तं कदाचित् भ्रान्ततया संशययुक्तं तत्संशय-
नाशकारकं मामव, स्वभक्तभ्रान्तिनाशकप्रियत्वात् । शिष्यम्, मद्बु-
द्धिस्थेन त्वयोपदिष्टत्वात् । ज्ञानशिक्षाशीलं मामव, स्वशिष्यप्रियत्वात् ।
पश्चात्तात् त्वद्भक्तिशीलनाशकनानाविघ्नेभ्यो मत्पृष्ठभागदिक्स्थितेभ्यो
मामव, स्वभक्ताज्ञातविघ्ननाशकत्वात् । तद्वत्पुरस्ताद्विघ्नेभ्यो मामव इति
तद्वदुत्तरदक्षिणो<flag>र्ध्वा</flag>धरा ज्ञातव्याः । दशदिग्रक्षणप्रार्थना प्रतिपादकत्वादे-
कार्थः । सर्वतो विदिशान्तरबाह्यादिनानास्थानस्थितविघ्नेभ्यो मां पाहि
पाहि । आदराद्वीप्सा । समन्ताद्ब्रह्माण्डान्तरगतभयात्पाहीति भावः ॥
इति तृतीयः खण्डः ॥ ३ ॥
एवं ऋतसत्यशीलरक्षणात्मकप्रार्थनां विधाय हृदिस्थं बुद्धिपरबुद्धि-
चालकं नानासिद्धिप्रदायकं च गणेशं प्रार्थयन्नाह -
–

चालकं नानासिद्धिप्रदायकं च गणेशं प्रार्थयन्नाह