This page has not been fully proofread.

माभाष्यम् ।
 
शान्त उपासीत" इति श्रुतेः । अत्र शान्त उपासीतेति सर्वोपाधिभाव-
मनादृत्य बलैब्रह्मैक्यभावप्रतिपादनत्वात् । तत्पदार्थप्रतिपादकमिदं महा-
वाक्यं, तज्जलानिति सर्वकारणप्रतिपादकत्वात् ।
 
एवं तलदार्थत्पदार्थं ब्रह्मासीति वचनसामर्थ्याच्छोधयित्वाऽसिपदशोधना-
र्थमाह -
 
त्वं साक्षादात्माऽसि नित्यम् ॥ १ ॥
त्वमिति । साक्षादात्माऽसि नित्यमिति कार्यकारणैक्यमाभावत्वादा-
त्मनः सातत्यगमनं नित्यम्, सर्वाभेदमयत्वात् । त्वंपदार्थात्मा, तमिदभिन्न-
लातू । तलत्वात् । तत्पदार्थात्मा तदभि न्नत्वात् । एवं यद्यन्मनोवाणीमयं तदीद्धीनं च
तत्र तत्तदभिन्नतया तदात्मा तदाऽपि तत्तदुपाधिभावहीनत्वान्नित्यमिति
दं न कार्यं न कारणम्, आत्मनि सर्वाख्याभावात् ॥ इति अधिदैवत-
प्रतिपादकः प्रथमः खण्डः ॥ १ ॥
 
एवं त्वंपदार्थं तत्पदार् तत्पदार्थमसिपदार्थं च शोधयित्वा तत्तत्पदार्थमयं गणेशं
प्रतिपाद्य एतत्प्रमाणार्थं स्वप्रतिज्ञांञा प्रदर्शयन्नाह -
 
ऋतं वच्मि । सत्यं वच्मि ॥ २ ॥
 
ऋतमिति । ऋतमनृतात्मकासुरभावाभिमानशून्यं, यथार्थगणेशभ-
क्त्यभिमानहीनभाषणत्वात् यथावेदानुभवप्रतिपादनत्वाच्च । वच्नीति
कथयामीति सत्यमिति । सदा देशकालवस्तुनिभित्तेषु विनश्वरतु यद-
विनाशि तत्सत्यं सर्वबाधहीनत्वात् । शिवविष्णवादिनानाबल प्रतिपादना-
त्मकदेहेषु गणेशदेहः संपूर्णबलैक्यभावमयः महावाक्यमयनरगजामेदा
धारकत्वात् । इदं सत्यमविनाशीति वच्मि ॥ इति स्वप्रतिज्ञात्मको
यः खण्डः ॥ २ ॥
 
एवं स्वप्रतिज्ञां सत्यभाषणात्मिकां प्रदर्य ऋतसत्यभाषणं गणेशो
रक्षति सा,
यथार्थ स्वभक्तिलुब्धत्वात् तदधीनो भवति । तदेव प्रकटय-
नाह -