This page has not been fully proofread.

गणेशाथर्वशीर्षम्
 

 
दिकण्ठपर्यन्तं नराकृतिमयगणेशदेहत्वात् । सोपाधिनिकृष्टत्वादधमाङ्ग-
नित्यर्थः । निरुपाधिर्गजस्तत्पदार्थात्मको गणेशदेहः, कण्ठादिमस्तक प
र्यन्त गजाकृतिमयगणेशदेहत्वात् । निरुपाधिसर्वोत्कृष्टत्वादुत्तमाङ्गमित्यर्थः ।
तयोर्योोगेऽसिपदार्थमयो गणेशदेहः, संपूर्णपादादिमस्तकपर्यन्तप्रतिपाद-
नत्वात् । ब्रह्मगणेशयोरभेदः कृतः तत्रातिव्याप्त्यव्याप्तिदोषासंभवः,
सामान्यान्मानसंभवात् । तद्वत्सर्वदोषनिराकारण सामर्थ्यादत्र ग्रन्थे सर्व-
त्रैव दोषासंभवात् । अत्र सिद्धिबुद्धियुक्तोऽपि प्रतिपादितः । पञ्चचित्त-
बृत्तिमयी बुद्धिस्तद्धर्षविषादादिमोहप्रदा सिद्धिः, " योगश्चित्तवृत्तिनि
रोधः " पा० १ सू० २] इति पातञ्जलसूत्रात् ।
 
64
 
एवं संपूर्णतत्त्वमस्यात्मकं गणेशं प्रतिपाद्य अधुना त्वंपदतत्पदासिप-
दमिनभावशोधनार्थं ग्रन्थारम्भः क्रियते । तत्र त्वंपदशोधनार्थमाह-
त्वमेव केवलं कर्ताऽसि ।
 
१२
 
त्वमिति । त्वमेव तत्त्वमसिमयः सन् त्वंपदार्थव्यवहारसत्ताप्रधारकः,
प्रणवांशमयत्वात् । केवलं कर्ताऽसि । केवलं यथातथाऽव्यक्तादिस्थूल-
देहपर्यन्तं जगनिर्माणकारकः, ओंकारात्तयोत्पत्तिदर्शनात् । तथापि
तद्भावशून्यो बिम्बप्रतिनिम्बवदो कारमयः, केवलपदग्रहणात् । तद्वत्-
त्वमेव केवलं धर्ताऽसि ।
 
जगत्पालकांडसि, नामकर्ममेदूतया स्वस्वकर्मानुसारा कृतियोग-
प्रदत्वात् । तद्भुत -
 
त्वमेव केवलं हर्ताऽसि ।
 
प्राकृतलयप्रवर्तकत्वात् ।
 
एवं त्वंपदार्थ केवलमिति पदेन तदुपहिया शोवतिल-
दार्थशोधनार्थमाह-
त्वमेव सर्वं खल्विदं ब्रह्मासि ।
 
सन तत्पदार्थव्यवहारसत्ता प्रधारकः, सर्वोपाधिवर्जितां रामबत्दात् । सर्व
खल्विदं ब्रह्मासीति । सर्वमिदमोंकारमय जगत् खलु नानोपाधिसंशय-
हीनम् । त्वमिति त्वमेव तत्वमसिमयः, सदैव ब्रह्मैक्यभावप्रतिपादन-
त्वात् । ब्रह्मासि तत्पदार्थमयत्वात् । "सर्वे खल्विदं बल । तज्जलानिति