This page has not been fully proofread.

सभाष्यम् ।
 
११
 
त्सृष्टिः गकारजकारमयत्वात् इति वाच्यम् । आदावेव समाधिना
योगिनो यत्र गच्छन्तीति फलं दर्शयित्वा स्वानुकूलं शिष्यं कृत्वा पश्चा-
तत्स्वरूपदर्शनार्थ तस्मात्सृष्टिरुक्ता शिष्यबोधार्थम् । न चैवं - अनं ब्रह्म
गजशब्दाख्यं, "अन्न ब्रह्मेति व्यजानात् । अन्नाद्धयेव खल्विमानि भू-
तानि जायन्ते " (तै० उ० अ० ३ अ० २ कं० ३६ ) इति श्रुतिप्रति-
पादितब्रह्मणामपि सर्वभूतोत्पत्तिलयकारकत्वात् - इति वाच्यम् । प्राणत्र-
ह्मणि अन्नस्योत्पचिलयदर्शनात् । तद्वन्नानारण्यक प्रतिपादितब्रह्मणामप्यु-
त्पत्तिलयकथनान्महावाक्यप्रतिपाय ब्रह्म जगत्कारण निर्गुणैकसंभवत्वात्
तस्मात्परकारणाभावाच्च। तदेव गणेशतापिन्याम्- "अप्राप्यं चाप्राप्यं च,
अज्ञेयं चाज्ञेयं च, विकल्पासहिष्णु तत्सशक्तिकं गजवक्त्रं गजाकार ज-
गदेवावरुन्धे" इति श्रुतेः । अस्यायमर्थः । अप्राप्यं चाप्राप्यं मनोगतिशून्यं
यद्यत्प्राप्यते तत्तन्मनोगतियुक्तत्वात । अत्र वीप्ता हि आग्रहप्रदर्शिनी ।
कदाऽपि प्राप्यत्वाभावात् । अज्ञेयं चाज्ञेयं वाण्या च वक्तुमशक्यं वाण्या-
ऽकथितम्, मनोध्येयत्वात् । पूर्वीप्सा ज्ञातव्येति । विकल्पासहिष्णु
विकल्पशून्यम्, निर्गुणत्वात् । तत्सशक्तिकं, निरुपाधिमायायुक्तत्वात् ।
" त्वंपदार्थादौपाधिकात्तत्पदार्थादौपाधिकात्" इति श्रुतेस्तत्पदार्थस-
शक्तिकात्मकत्वसंभवात् । गजवक्त्रं तत्पदार्थमयगणेशवक्त्र मात्रत्वाद्द्वज
इव वक्त्रमिति व्युत्पत्तिसंभवाच्च । गजाकारं जगत् ओंकारात्मक जग-
त्सोपाधि ब्रह्म जगन्मयत्वात् । तदेव गणेशतापिन्यां-"ततश्वोमिति ध्वनि-
रभूत्तत्स वैगजाकार अनिर्वचनीया सैव माया जगद्वीजमित्याह । सैव प्र-
कृतिरिति गणेश इति प्रधानमिति च मायाशवलमिति च' इति श्रुतेः। गजा-
कारोंकारप्रतिषादनात्तदेव जगन्मयत्वाद्विम्वप्रतिबिम्बवद्गज शब्दाख्य ब्रह्म-
णो गजाकारौंकारोत्पत्तिदर्शनाद्वजस्याऽऽकार इवाऽऽकारो यस्यति व्युत्प
त्तिसंभवात्साक्षागजमयाभावात् गजाकार श्रुतिप्रतिपादनाच । एवावरुन्धे
गजाकारं जगद्यदुत्पन्नमादौ यदाधारं मध्येऽन्ते यन्मयमित्यर्थः, अवरोध-
नार्थसंभवात । इति गजशब्दाख्यतत्पदार्थैक्य प्रतिपादनं श्रुतिप्रमाणत्वात् ।
नरगज योरभेदेऽतिपदात्मको गणेश देह । संपूर्णस्तत्त्वमस्यात्मकः, प्रत्यक्ष-
मधुनाऽपि सावयवत्वात् । सोपाधि रस्त्वंपदार्थात्मको गणेशदेहः, पादा..