This page has been fully proofread once and needs a second look.

१०
 
गणेशाथवशीर्षम् ।
 
(छा० उ० ६ । ८ ) । इति क्रमेण नवघोपदेशस्तत्त्वमस्यात्मक महावा-
क्यस्य ग्रन्थबाहुल्यभयान्न लिख्यत इति ।
 
त्वंपदार्थादौपाधिकात्तत्पदार्थादौपाधिकाद्विलक्षण आकाशवत्सूक्ष्म
एव केवलसत्तामात्रोऽसिपदार्थः । "स्वयंज्योतिरात्मेत्युच्यते । त्वंप-
दार्थतत्पदार्थसाम्यं आत्मेत्युच्यते " इत्यादिश्रुतिभ्यः ।
 
अधुना तत्त्वमस्यात्मकगणेशम्स्वरूपं वर्ण्यते । त्वमेव प्रत्यक्षं तत्त्व-
मसीति मूलवाक्यप्रतिपादनार्थत्वात् । त्वंपदार्थो नरात्मकस्तत्पदार्थो
गजात्मकश्च तयोरभेदेऽसिपदार्थो गणेशाकृतिमयः । प्रत्यक्षं तत्त्वमसोति
प्रत्यक्षवाक्यप्रामाण्यात् । तद्यथा । नरः प्रणवात्मकः । सोपाधिबलाब्रह्मात्म-
कत्वात् । स एव त्वंपदार्थः । प्रणवपरसोपाध्यभावात् । "ओमित्येका
क्षरं ब्रह्मेदं सर्वेवं तस्योपव्याख्यानं सर्वेवं भूतं भव्यं भविष्यदिति सर्वमों-
कार एव " इति श्रुतेः । "सोपाधिक: स्यात्सर्वत्र " इति स्मृतेः ।
"आपो नारा इति प्रोक्ता आपो वै नरसूनव: "
 
इति श्रुतेः । अबुपलक्षितानि पञ्च भूतानि ग्राह्याणि । वेदभाष्ये शंक-
राचार्यवचनातूत् । "नराज्जातानि तत्त्वानि " इति स्मृतेः । प्रणवात्त-
त्त्वोत्पत्तिः । सर्वशास्त्र संमतत्वात् । नारायणोपनिषदि नारायनामार्थ-
प्रतिपादने नराज्जाता नाराः ता एवायनं यस्येति नारायणः । प्रणवम-
यत्वात् । प्रणवोपासक संन्यासिनां नारायण संज्ञात्मकत्वात् ।
 
"दण्डग्रहणमात्रेण नरो नारायणो भवेत् "
इति स्मृतेः । गाणेशे-
66

"यस्मादादोंकारसंभूतिर्यतो वेदा यतो जगत् "
 
इति स्मृतेः । त्वंपदार्थो नरात्मकः । तदैक्यसत्तामयत्वात् । अथ
गजशब्दार्थः कथ्यते तत्पदैक्यसत्ताप्रतिपादनार्थत्वात् । समाधिना
योगिनो यत्र गच्छन्तीति गः । यस्माद्विबिम्बप्रतिबिम्बवत्तया प्रणवात्मकं
जगज्जायत इति जः गश्चासौ जश्च गजः । विश्वकारणत्वात् । "ज-
न्माद्यस्य यतः " [अ० १ पा० सू० २ ] इति व्याससूत्रात् ।
"यस्मादोंकारसंभूतिर्यतो वेदा यतो जगत् " ।
 
ज-
"
 
इति गाणेशात् । न चैवं -- विपरीतो गजपदार्थ आदौ लवःयः पश्चा-