This page has not been fully proofread.

सभाष्यम् ।
 
एतन्मिथुनं आमिति । यद्राकू च प्राणश्चर्क च माम च । तदेतन्मिथु
नमोमित्येतदस्मिनक्षर ससृज्यते । यदा वै मिथुनौ समागच्छत
आपयतो वै तावन्यान्यस्य कामम् " । ( छा० उ०३ । १ )
 
यथा लोके मिथुनौ यदा समागच्छतस्तदापयतः कामं तथा तदुपा-
सकस्तद्धर्मो भवति । आपयिता ह वै कामानां तं यथा यथोपामते
तदेव भवतीति । "त्रयं वा इदं नामरूपं कर्म " ( ब० उ० ३।६।१ ) ।
"तदेतदमृत-सत्येन छन्नं । प्राणो वा अमृतं । नामरूपे सत्यं । ताभ्यामगं
प्राणश्छन्न: " [ बृ० उ० ३ । ६ । ३ ] यथोर्णनाभिस्तन्तुनोचरेत् । स
यथाऽमेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवाम्मादात्मनः सर्व प्राणाः सर्वे
लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व एव आत्मनो व्युच्चरन्ति ।
तस्योपनिषत्सत्यस्य सत्यमिति प्राणा वै सत्यं । तेषामष सत्यम्" (बृ०
उ० ४ । ॥ २० ) । "अथ यत्रान्यत्पश्यत्यन्याद्वेजानाति तदल्पमिति " ।
 
मनआदिश्व प्राणादिश्व सत्त्वादिश्व इच्छादिश्च पुण्यादिश्चेत पञ्च
वर्गा इत्येषां पञ्चानां वर्गाणां धर्मीभूतात्मज्ञानाहते न विनश्यत्यात्म
संनिधौ नित्यत्वेन प्रतीयमान आत्मोपाधियंस्तल्लिइशरीरं हृद्ग्रन्थिरि-
त्युच्यते । तंत्र यत्प्रकाशते चैतन्यं स क्षेत्रज्ञ इत्युच्यते । ज्ञातृज्ञानज्ञेया
नामाविर्भावतिरोभावज्ञाता स्वयमेवमाविर्भावतिरोभावहीनः स्वयंज्याति:
स साक्षीत्युच्यते । ब्रह्मादिपिपीलिकापर्यन्तं सर्वप्राणिबुद्धिष्वविशिष्टतयो-
पलभ्यमानः सर्वप्राणिबुद्धिस्थो यदा तदा कूटस्थ इत्युच्यते कूटस्थायु-
पाहतभेदानां स्वरूपलामहेतुर्भूत्वा मणिगणे सूत्रमिव सर्वक्षेत्रेष्वनुत-
त्वेन यदा प्रकाशत आत्मा तदाऽन्तयामोत्युच्यते । सर्वोपाधिविनिर्मुक्तः
सुवर्णधनवविज्ञानघनश्चिन्मात्र स्वभाव आत्मा यदाऽवमासने तदा
त्वंपदार्थः प्रत्यगात्मेत्युच्यत इति श्रुतिभ्यः । त्वंपदतत्पदयोरभे-
देऽसिपर्द, सोपाधिनिरुपाधिहीन मदात्मत्वात् ।
भूय एव म।
भगवान्विज्ञापयतु यदै मनसा ध्यायति म तदाचा वदति । म य एषोऽ-
णिमा एतदात्ममिदः सर्वे तत्सत्य : म आत्मा । तत्त्वमसि श्वेतकेतो "
 
१ ' सर्व एव आत्मानो' इत्येतत्कालिकातामुद्रितबहदारण्यक पुस्तके नास्ति ।