This page has not been fully proofread.

गणेशाथवशीर्षम् ।
 
प्रत्यक्षं तत्त्वमसि ।
तत्त्वमसि ।
 
त्वमेव प्रत्यक्षं
त्वमेव
 
त्वमिति । त्वमेवेति नान्यः निश्चयार्थ एवकारः । प्रत्यक्षमिति । ब्रह्म
दृष्टिगोचरम् । नरगजभेदाभिन्नाकृतिमयत्वात् । तेन च महान् हर्षः, साक्षा-
इलदर्शनाभावात् । तत्त्वमसीति । जगत्कारणं तत्पदसंज्ञम् । निर्विकल्प-
कत्वात् । 'स-मूलमन्विच्छ सन्मूलाः सौम्येमाः सर्वाः प्रजाः सदायतनाः
सत्प्रतिष्ठाः ' ( छा० उ० ६ । ६ ) इति श्रुतेः । 'भूमानं भगवो विजि-
ज्ञास इति । यत्र नान्यत्पश्यति नान्यच्छृणोति स भूमा ' ( छा० उ०
७ । २४) इति । 'बलैवेदममृतं पुरस्ताइस पश्चाइझ दक्षिणतश्चो
त्तरेणेति । स यथा सैन्धवधनोऽनन्तरोऽवाह्यः कृत्स्नो रसघन एवैवं वा
अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव' (बृ० उ० ६ ५।
१३) इति श्रुतिभ्यः । 'सत्यं ज्ञानमनन्तमानन्दं ब्रह्म ' सत्यमविनाशि-
नामदेशकालवस्तुनिमित्तेषु विनश्यत्सु यन्न विनश्यति तदविनाशिं
सत्यमित्युच्यते । ज्ञानमित्युत्पत्तिविनाशरहितं चैतन्यं ज्ञानमित्यभिधी-
यते । अनन्तं नाम मृद्विकारेषु मृदिव, सुवर्णविकारेषु सुवर्णमिव, तन्तु-
कार्येषु तन्तुरिवाव्यक्तादिसृष्टिप्रपञ्चेषु सर्वव्यापकं चैतन्यं अनन्तमित्यु-
च्यते । आनन्दो नाम सुखचैतन्यस्वरूपापरिमितानन्दसमुद्रे अविशिष्ट
सुखरूपश्च आनन्द इत्युच्यते । एतद्वस्तु चतुष्टयं यस्य स्वरूपलक्षणं देश-
कालवस्तुनिमित्तेष्वव्यभिचारि स तत्पदार्थ ।
 
6
 
'
 
परमात्मा परं ब्रह्मेत्युच्यते' इति सारोपनिषच्छ्रतेः जगन्मयं त्वंप
दसंज्ञं, नानाभेदप्रकाशकत्वात् । अमित्येतदक्षरमुग्दीथमुपासीत ।

अमित्युद्गायति । तस्योपव्याख्यानम् । एषां भूतानां पृथिव्या आपो
रसः । अपामोषधयो रसः ओषधीनां पुरुषो रसः पुरुषस्य वाकू रसः ।
वाच ऋक् रसः । ऋचः साम रसः । तस्योद्गीथो रसः । स स एष
रसाना रसतमः । परमः परार्थ्योऽष्टमो यदुद्गीयः ३ । कतमा कतमा
ऋक् ! कलमत् कतमत्सान ? कतमः कतम उद्गीथः ? इति विमृष्टं
भवति ४ वागेव ऋकू । प्राणः साम । अमित्येतदक्षरमुद्गीथः तद्वा
 
१ अत्र जगन्मयं त्वंपदसंज्ञं, नानाभेदप्रकाशकत्वात्' इत्युक्त्वा 'ओमित्येतदक्ष-
रमुद्गीथम्' इत्याद्याः श्रुतय उदाहृताः। परं न जानीम: पकते तासां कोपयोग ? इति ।