This page has been fully proofread once and needs a second look.


सभाष्यम् ।
 
ब्रह्मविष्ण्वादिगणानामीशभूतमित्याह 'तद्गणेश' इति तत्परमित्याह
'यमेतेनाप्नुवन्ति' इति गणेशतापिनी श्रुतेः । तथाचोक्तं मौद्गले-
 
"गणशब्दः समूहस्य वाचकः परिकीर्तितः ।
समूहा योगरूपाश्च बाह्यान्तरेक्यभावतः ॥
अन्नानां सकलानां वै समूहेऽन्नमयं परम् ।
कथितं ब्रह्म वेदे तदेवं नानागणाः स्मृताः ॥
तेषां स्वाभी गणेशानस्तं ज्ञात्वा योगिनः पुरा ।
शान्तिं प्राप्ता विशेषेण योगशान्तिमयं परम् " !
 
इति । अन्यच्च-
" कथितं सामवेदे यच्छृणु वेदरहस्यकम् ।
येन त्वं शान्तिसंयुक्तो भविष्यसि न संशयः ॥
मनोवाणीमयं सर्वं दृश्यादृश्यस्वरूपकम् ।
गकारात्मकमेवं तत्तत्र ब्रह्म गकारकः ॥
मनोवाणीविहीनं च संयोगायोगसंस्थितम् ।
णकारात्मकरूपं तण्णकारस्तत्र संस्थितः ॥
विविधानि गकाराच्च प्रभूतानि महायते ।
ब्रह्माणि तानि कथ्यन्ते तत्त्वरूपाणि योगिभिः ॥
णकाराच्च प्रसूतानि ब्रह्माणि तानि योगिभिः ।
निरोधात्मकरूपाणि कथितानि समन्ततः ॥
गकारश्च णकारश्च <flag>नाम्नि</flag> गणपतेः स्थितौ ।
तदा जानीहि भो योगिन् ब्रह्माकारौ श्रुतेर्मुखात् ॥
तयोः स्वामी गणेशश्च योगरूपेण संस्थितः ।
तं भजस्व विधानेन शान्तिमार्गेण पुत्रक " ॥
 
ते तुभ्यं नमः । तत्त्वमस्यात्मकब्रह्मनमस्कारसमत्वात् ब्रह्मनमस्का-
रासंभवाच्चेति नाममन्त्रोऽयमादौ वर्णितः । सर्वजनोद्धारसुलभत्वात् ॥
ननु- गणेशनमनेन जनस्य कृतकृत्यता कथं ? सावयवत्वात् । तदर्थं
महावाक्यप्रतिपाद्यतामाह -