This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
कुहनागोपाय । मिथ्यागोपाय, मायागोपाय; गोपवे--
षाय ॥
 
गोपायते । यद्यप्यात्मानं योगमायया गोपयामास, अ-
स्मान् गोपायति ॥
 
कालिन्दीरसिकाय । रसिकः खलु नृत्येत् । यथा
भावुका रसिकान्तथा रसस्वरूपोऽयं परमरसिकः । कालि-
न्दीरसिकोऽयं यामुनः, तस्याः कृष्णाहिना दूषणं न मर्ष-
येत् । कालिन्द्यां व्रजयुवतिभिः सह जलक्रीडादेरयमहिः
परिपन्थी । कालिन्दीरसिकत्वमहिमर्दने तदुपरि नर्तने च
हेतु: । 'नद्यस्तदाकर्ण्य मुकुन्दगीतमावर्तबुद्बुद मनोभव भन्नवे-
गाः । आलिङ्गनस्थगितमूर्मिसुजैर्मुरारेर्गृह्णन्ति पादयुगलं कम-
लोपहाराः ॥' इति कालिन्द्याः कृष्णगानरसिकत्वम् । रसि-
कायां तस्यां नद्यां विहरणरसिकः कृष्णः । तस्यां नर्तनेन तां
सन्तोषयितुमिच्छति ॥
 
कालियफणिस्फारस्फटेत्यादि । 'यद्यच्छिरो न नमद्-
अशतैकशीर्ष्णस्वत्तन्ममर्द खलदण्डघरोऽप्रिपातैः । इति
श्रीशुकानुभवः । समीचीनसन्मार्गनिर्माता खलु भगवान् ।
मार्गरचयितारः शर्करास वयान्निवेश्य तान्मर्दयेयुदण्डादिभिः ।
 
MPL Sastry Library Free Digitisation indescripts.org (ISHT)
 
7