This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
ण्डवेन वृत्तावतारसमापनं रोचयन्त आचार्या: । त्रुटितज-
नताशोकः श्लोको य उद्गायत भगवता, तदुपदिष्टोपायस्या-
नुष्ठानमपि संपादितं भवत्यनेन " क्रोधोऽपि तेऽनुग्रह एव
संमतः ।' ' तपः सुतप्तं किमनेन पूर्वम्....कस्यानुभावो-
ऽस्य न देव विद्महे तवाङ्‌ङ्घ्रिरेणुस्पर्शाधिकारः' इति पर-
मकश्मलमापन्नस्य नागस्येषदपि प्रयत्नं विना शरणवरण-
बुद्धिमात्रसंपादनेन स्वशिरसां भगवत्पादाम्भोजसंयोजन प्र-
णामादिसौकर्यं बभूव । भगवत्पादाम्बुजसंयोगेन सर्वाणि
शिरांस्यनुजगृहिरे । अस्माकमेकस्यापि शिरसस्तत्संयोगो
दुर्लभ: शिरःसंख्याधिक्यं सकृत्प्रणा मेप्यनेकप्रणामसंपा-
दनानुकूलम् । 'तं प्रेक्षणीयसुकुमारघनावदातं श्रीवत्सपी-
तवसनं स्मितसुन्दरास्यम् । क्रीडन्तमप्रतिभयं कमलो
दराङ्घ्रि संदश्य मर्मसु रुषा भुजगश्चछाद ॥ इति
पुष्पहास सुकुमारं कुमारं क्रूरं ददंशायं नागः । परमापद-
मापन्नो रुधिरमुरु वमन् गत्यन्तराभावान्ननाम तम् ' नारा-
यणं तमरणं मनसा जगाम' इति । तादृशमार्द्रापराधिनं
शरणोक्तिमात्राद्ररक्ष । न केवलं तं मुमोच, किंतु तमनुज-
माह सुपर्णादद्भयप्रदानेन । सर्वभूतेभ्यः खलु तेनाभयं दीयते
' सुपर्णस्त्वां नार्द्यात्' इति । क्रोधोऽप्यनुकूलं परिणतः ।
 
,
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)
 
९४
 
1