This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या
 
'विलोक्य दूषितां कृष्णां कृष्णः
इति वदता
 
कृष्णाहिना विभुः '
तन्मूर्धरत्नीनकरस्प शीतिताम्रपादाम्बुजो-
ऽखिलकलादिगुरुर्ननर्त ।' इति विचित्रं प्रदर्श्यते नर्तनो-
पक्रमः नर्तनभूमौ भूतले दीपपयो निवेश्येरन्पा-
दजङ्घादिसुन्दरललितचेष्टाः प्रकाशयितुम् । तत्कार्यं निर्व-
र्त्यते नागशिरोरत्नैः पादाम्भोजाधः स्थितैः । अखिलकला-
दिगुरौ रसमये कृष्णे नृत्यति सर्वे प्रसिद्धगायका धावन्ति
नवनवक्रमान् शिक्षितुम्, तत्र तालादिना सह कर्तुं च ।
नर्तनेऽवश्यं तालापेक्षा। वेणुगाने न तन्त्रैयत्यम् । नवनीतनाट्ये
निमन्थमुखरं दधि तालं निबबन्ध । अत्र 'तं नर्तुमुद्यतमवे-
क्ष्य तदा तदीयगन्धर्वसिद्धसुरचारणदेववध्वः । श्रीत्या मृद-
ङ्गपणवानकवाद्यगीतपुष्पोपहारनुतिभिः सहसोपसेदुः ॥ इति
गन्धर्वसिद्धादीनां तत्रागत्य सर्वेस्तालायुपकरणवाद्यैर्गीतादि-
भिश्च सह कर्तृत्वमुच्यते । प्रथमं वाद्याद्युपहारः । अनन्तरं
पुष्पोपहार इति चारु व्यज्यते परमरसिकेन ऋषिणा ।
सेदुः' इति गुरूपसदनं व्यज्यते । अखिलकलादिगुरुः खलु
नृत्यति । अयं प्रथमगुरुर्न केवलमध्यात्मविद्यायाः । तमुप-
सद्य बहु शिक्षणीयमस्ति सिद्धानामपीति सिद्धशब्देन व्य
ज्यते । आदिगुर्वपेक्षया ते साधका भवन्ति । ईदृशचित्रता-
(
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)
 

 
,
 
९३
 
उप-