This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
९२
 
म्' इति । साधूतं श्रीमद्ब्रह्मानन्दैरेतद्विषये 'मधुसूदन-
सरस्वत्याः पारं वेत्ति सरस्वती । सरस्वत्याः परं पारं
वेत्ति वै मधुसूदनः ॥' इति । भूतार्थव्याहृतिरेषास्यान्न
स्तुतिः । ब्रह्मत्वप्रदर्शिका विश्वरूपादिवृत्तान्ता बहवः सन्ति ।
किमर्थं तेषामन्यतमस्येहाप्रहणम ? यदि कौमारकेऽपि ब्रह्मत्त्वं
निदर्येत; तत्तत्सम्यगुपपादयेत् । मिथ्यागोपस्य विश्वगोपत्वं
प्रदिदर्शयिष्यन्त्याचार्याः । गोपायोदत्यवतारान्तरेषु प्रार्थना ।
गोपवदाचरेदित्यर्थद्वयं भवेदन । तन्न हास्यते वैचित्र्यदिद-
र्शयिषुभिराचार्यैः । 'चित्रैर्विचित्रक्रमैः ' इत्यस्मिन्श्लोकेऽपि
वैचित्र्यसक्तताप्रकटनम् । तर्हि शैशवेऽपि माले मुखं व्या-
दाय तत्र विश्वं प्रादर्शि। तदपि गोपालबाळकृतम्। बाल्ये
प्रदर्शनादपि कौमारके तत्प्रदर्शनं निपुणतरं स्यात् । किमर्थं
कालिय मर्दन चरित्रोपादानमिति चेत्, सन्व्यत्र बहवो हेतवः ।
रत्ने धामनि नटनं खलु प्रतिजज्ञे । वृत्ता अवतारा अल
समाप्यन्ते । भाव्यत्रतारः कश्चिदवशिष्टः । वृत्तावतारपरि-
समाप्तौ नृत्तवर्णनसंभवे तदुपादानमत्र सुसङ्गतम् । अत्र
कालियफणा रङ्गं भवतीत्युच्यते । नवनीत नटनादेर्यद्यपि
नवनीतादपि स्वादुत्वमस्ति, न तेन बृहत्त्वमुपपाद्येत ।
कृष्णत्रयमस्मिश्चरित्रे सङ्गतमिति चारु दर्श्यते श्रीशुकेन
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)