This page has not been fully proofread.

दशावतारस्तोत्र व्याख्या ।
 
पठितः । अवतारान्तरेष्वपि कृष्णशब्दः प्रयुज्यते 'उद्धृतासि
वराहेण कृष्णेन शतबाहुना' इति । अस्यावतारस्य ब्रह्मत्वे
न कोऽपि संशयीत । 'नाहं प्रकाश: सर्वस्य योगमाया-
समावृतः' इति श्लोकमवतारयन्तो मधुसूदनसरस्वत्य ऊचुः
'ननु जन्मकालेऽपि सर्वयोगिध्येयं श्रीवैकुण्ठस्थमैश्वरमेव
रूपमाविर्भावितवति संप्रति च श्रीवत्सकौस्तुभवनमालाकिरी-
ठकुण्डलादिदिव्योपकरणशालिनि कम्बुकमलकौमोदकीचक्रव-
रधारिचतुर्भुजे श्रीमद्वैनतेयवाहने निखिलसुरलोकसंपादितरा-
जराजेश्वराभिषेकादिमहावैभवे सर्वसुरासुरजेतरि विविधदि-
व्यलीलाविलासशीले सर्वावतारशिरोमणौ साक्षाद्वैकुण्ठनायके
निखिललोकनिस्ताराय भुवमवतीर्णे विरिश्चिप्रपञ्चासभविनि-
रतिशय सौन्दर्यसारसर्वस्वमूर्ती बाललीलाविमोहितविधातरि
तरणिकिरणोज्ज्वलदिव्य पीताम्बरे निरुपमश्यामसुन्दरे कर-
दीकृत पारिजातार्थपराजितपुरन्दरे बाणयुद्धविजित शशाङ्कगे-
खरे समस्तसुरासुरविजयिनरकप्रभृति महादैतेयप्रकरप्राणपर्य-
न्तसर्वस्वहारिणि श्रीदामादिपरमरक्तमहावै भवकारिणि षोड.
शसहस्रदिव्यरूपधारिणि अपरिमेयगुणगरिमणि महामहिमनि
नारदमार्कण्डेयादिमहामुनिगणस्तुते त्वयि कथमविवेकिनो-
ऽपि मनुष्यबुद्धिर्जीवबुद्धिर्वेत्यर्जुनाशङ्कामपनिनीपुराह भगवा-
-
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)