This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
शेषास्तावानधिक मधुरिमा शेषिणः । कृष्णस्य केलय: स्वादु-
त्वेन प्रसिद्धा इति 'ता:' इत्यनेन व्यज्यते । कृष्णशब्देन
निर्वृतिभूमिरिति निर्वचनलब्धार्थो विवक्ष्यते । स्वयं निर्वृति-
भूमिः कृष्णः । अखेलन् केलीरहितोऽपि से निर्वृतिभूमिः ।
तस्य कृष्णस्य केलयो जगते स्वदेरन् । ताः प्रसिद्धाः कृष्ण-
केलयोऽपि बलभद्रकेलिभिरपृथग्भूता अत्यन्तं रसवत्योऽभू-
वन्। अपायधुरंधरस्य साहसरसिकस्य कृष्णस्य क्षणविश्लेष-
मपि न सेहे ज्येष्ठ इति व्यज्यते श्रीमद्भट्टै: 'यद्विश्लेषलवो-
ऽपि कालियभुवे कोलाहलायाभवत्' इति ।
नाथायैव नमःपदं भवतु नश्चित्रैर्विचित्रक्रमै-
भ्रूयोभिर्भुवनान्यमूनि कुहनागोपाय गोपायते ।
कालिन्दीरसिकाय कालियफणिस्फारस्फटावाटिका-
रङ्गोत्सङ्गविशङ्कचङ्गमधुरापर्यायचर्या
 
यते ॥
 
निर्वृतिभूभिराचार्याणां कृष्णावतारः । तथा चाक्तं तात्प
र्यचन्द्रिकायां नवमाध्याय चतुर्दशश्लोकभाष्यटकायाम् ' कृषि-
र्भूवाचकः शब्दो णश्च निर्वृतिवाचकः । ' इति कृष्णशब्दोऽपि
पुरुषार्थहेतुत्वप्रतिपादनमुखेन परव्यूहादिसमस्तावस्थासाधार-
ण इति ज्ञापनाय व्यापकयोः (नारायणवासुदेवशब्दयोः) मध्ये
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)