This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या
 

 
महिमा सुस्पष्टं प्रकाश्यते । यदा सा 'परं भावं भगवतो
भगवन्मामजानतीम् । मोक्तुमर्हसि विश्वात्मन्प्रपन्नां भक्त-
वत्सल ॥' इत्यभयं ययाचे, सद्यस्तदपराधमक्षाम्यद्बल इत्यु-
च्यते
। ' ततो व्यमुञ्चद्यमुनां याचितो भगवान्बलः ।' अ-
नेन पूर्वोत्तराभ्यां स्थापित शरणागतवाणधर्मोऽनेनापि प्रख्या-
पित इति सूच्यते
 
1
 
८९
 
तालाङ्कस्य तथाविधा विहृतयः । कनीयानिव
रागतालादौ नायं रसिकः । अस्य तालो ध्वजाग्रे चिन्हभूतः ।
नेतरं तालं जानात्ययम् ॥
 

 
तन्वन्तु भद्राणि नः 'नः शुभमातनोतु' इति य
दुक्तं प्रथमश्लोके तदिहापि प्रार्थ्यते । उचितमिदं भद्रे भद्र-
प्रार्थनेति व्यज्यते बलभद्रनामदृष्टभद्रशब्दप्रयोगेण । किं
भद्रं प्रार्थ्यत इति चेदुच्यते उत्तरार्धे ॥
 
क्षीरं शर्कर येत्यादि । उभयोः शेषशेषिणोस्तव्यापारयोश्च
परस्परापृथग्भूतत्वेनान्योन्यास्वादयितृत्वरूपं भद्रं विवक्ष्यते
भद्रप्रार्थने । शेषी क्षीरम् । शेषः शर्करा । शर्करीभूतः शेष:
शेषिणमधिकं स्वादयति । केवलो दाशरथी रामो न तथैकः
शोभेत, यथा गुहेन सहितो लक्ष्मणेन च सीतया । यावन्तः
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)