This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
दृध्यक्षीकरणं मुख्य प्रयोजनम् । विशिष्टाद्वैतरूपभद्राण्ययं त-
नोति । 'भद्राणि नस्तन्वीत' इत्युक्तम् 'नः शुभमातनोतु'
इतिवत् । किं भद्रं तन्वीतेति पृष्ठे प्रतिवचनं दीयते उत्तरा-
र्धेन । उभयोरपृथग्भूतयोः क्षीरशर्करयोरिव परस्पर स्वाद-
कत्वम् । तादृशं भद्रमाशास्यते । तदेवामिप्रेयत इव क्षेम-
शब्देन श्रीभट्टार्यैः । एतादृशापृथक्सिद्विरूप भद्रविस्तारणा-
दस्य बलभद्र इति नामेवेति व्यञ्जयन्याचार्याः शुभार्थकय-
द्रशब्दमत्र प्रयुञ्जानाः । उभयोरनन्यत्वमाभप्रेत्य श्रीभाष्भ.
कारैर्बलरामकृतप्रलम्बमुष्टिकादिहननमपि कृष्णचेष्टितत्वेना-
वर्ण्यतेत्युक्तं तात्पर्यचन्द्रिकायाम् : 'भगवतो बलभद्रस्या-
प्येतदंशरूपस्त्रात्प्रलम्बमुष्टिकादिनन मध्येतत्कर्तृकतयोपात्तम्'
इति । तदेवानन्यत्वमत्रापि द्योत्यत इवाचार्यैरपृथग्भूत शब्दं
प्रयुञ्जानैः ॥
 
८८
 
फकत्कौरवपत्तनप्रभृत्तयः । कृष्णो गजं कुवलयापीडं
जघान । तज्ज्येष्ठो रामो गजाह्वयं नगरं हलाग्रेण विचकर्ष
प्रभृतिशब्देन यमुनाकर्षणवृत्तान्तो द्योत्यते। 'अनागतां हला-
मेण कृषितो विचकर्ष ह ।' पादयोः पतिता यमुना चक्रन्द
राम राम महाबाहो न जाने तव विक्रमम् । यस्यैकांशेन
विधृता जगती जगतः पते ॥" इति । एनेन ब्रह्मवत्तस्य
 
6
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)