This page has been fully proofread once and needs a second look.

कृतगात्रवान् । सदा परगुणाविष्टो द्रष्टव्यः सर्वदेहिभिः ॥'
इत्युपबृह्मणानुसारेण । परमात्मनो द्रष्टव्यतां विद्धाति श्रु-
तिः । विश्वदेहिप्रभृतिसर्वदेहिभिर्ब्रह्मरसमग्नस्यात्मज्ञस्य द्रष्टव्य-
त्वं विधीयते उपबृह्मणेन । <flag>नेत्व</flag>मुकुलगलदानन्दशीताश्रुभिरा-
नन्दपुलकोद्गमादिभिश्च प्रत्यक्षलिङ्गैरान्तरा निश्चला रतिः
प्रत्यक्षीक्रियते । पुलकीकृतगात्रवानिति मतुपा गात्रस्य सदा-
ङ्कुरन्नवनवपुलकवत्त्वं व्यज्यते । प्रतिक्षणं नवनवा: पुलका
उद्गच्छन्ति । तदेव 'मुहुर्मुहुः पुलकितानि' इत्याचार्यैरुच्य-
ते। कण्ठकवराह इति प्रख्यातः श्वापदो हर्षक्रोधभयादिनिमि-
त्तेषु कृत्स्नगात्रेऽपि कण्टकोद्गमं बिभर्ति । तत्र च कण्ठकव-
त्त्वमन्वर्थम् । तत एव पुलकस्य कण्टकसंज्ञा कृता स्यात् ।
रसेन भगवता नटीभूय नायिकया सह निर्वर्तितलोकोत्तरभू-
मिकानामध्यक्षणेन भावुकचित्तं नियतं रज्येत । रसस्वरूपन-
टभावितरसेन तद्भावयितृचित्तं ध्रुवं व्याप्येत । तत्तदवताराणां
यथावृत्तं विचित्रवर्णनेन दृश्काव्यादपि चारुतया श्रोतृचि-
तरञ्जनं क्रियते आचार्यैः । तत्तदवतारविषयवर्णने महर्षि-
भिर्बहुग्रन्थैः कृतमेकेन श्लोकेनातिविचित्रं संगृह्यत इति दर्श-
यिष्यते ॥
 
चित ईश्वरश्व सर्वे नटाः । यद्यपि शुद्धं चैतन्यं तेषाम-