This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
6
 
भवच्छेषी च शेषः । शेषमत्यन्तं संमानयते शेषी । सच
शेषिधर्मः सम्यक्स्थाप्यते । ' क्वचित्क्क्रीडापरिश्रान्तं गोपोत्स-
ङ्गोपबर्हणम् । स्वयं विश्रमयत्यार्थ पादसंवाहनादिभिः ॥
इति रामपादसंवाहनं कृष्णेन । बृहत्त्वप्रदर्शनं खलु मुख्य
कृत्यमत्र । तत्कंथं निरूप्यत इति चेत्, हलामेण हस्तिनपु-
रमाकृष्य गङ्गायां पातनम्, तेनैव यमुनाकर्षणमित्यादिभिः
कृत्यैस्तस्य बृहत्त्वमुपलक्ष्यते । 'अक्षत्त्रां क्षितिं करिष्यामि'
इत्याद्यो रामः ।
अद्य निष्कौरवामुर्वी करिष्यामि' इति
तृतीयो रामः । यथा कृष्णः त्रिशुर्विपुलोलूखलं चकर्ष तथा
तज्ज्येष्ठ: 'लाङ्गलाप्रेण नगरमुद्विदार्य गजाह्वयम् । विचकर्ष
स गङ्गायां प्रहरिष्यन्नमर्षितः ॥ ' उभयोर्भ्रात्रोः कर्षकत्वं स-
मानम् । एक: संकर्षणः, अपरः कृष्णः । एको हलधरः ।
अपरश्चक्रधरः । एकेन शेषेणाद्यरामेण क्षितिर्निष्कण्टकं स-
न्ततले । अनेन हलधरेण सा कृष्यत इव । क्षेमकृषीवलो-
ऽयं हलधर इति श्रीभट्टपादाः । कौरवपत्तनफक्कनेन ब्रह्मबृ-
ह्नितशेषस्याद्भुतबृहच्छक्तिः प्रदर्श्यते । ब्रह्मणो बृहत्त्वं ब्रह्म-
यितृत्वं च दर्शितं भवति । शेषशेषिणोरुभयोरपृथग्भूतत्व-
रूपानन्यत्वं सम्यग्बोध्यतेऽत्र तद्वितीनामपृथग्भूतत्वकथनेन
अपृथग्भूतशब्दः सिद्धान्तप्रतितन्त्र भूतमर्थमुद्घाटयतीव । त-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)
 
८७