This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
6
 
अधर्मविरतिं धन्वी स तन्वीत नः । किं शुभमातनो-
त्वयम् । अधर्मविरतिरूपं शुभमातनोतु । भवसागरविरतिं
तनोतु । सागरशोषणवृत्तान्तेन सेतुनिर्माणं ज्ञाप्यते । तेन च
सेतुना ब्रह्महत्याद्यधर्मविरतिर्भवति । 'धन्वी सः' इति
राम: शस्त्रभृतामहम्' इति प्रसिद्धः स धन्वी ।
" वीर्य-
वान्न च वीर्येण महता स्वेन विस्मितः' इति स्ववीर्यावि
स्मितोऽपि स्वयमेवावतारान्तरे दाशरथ्यवस्थमात्मानमेकघ-
न्वित्वेन प्रशशंस ' शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् '
इति प्रपन्नस्य शिष्यस्य तत्त्वमवश्यकथनीयम्, न गोप-
नीयम् । 'शरणमुपगतान्नस्त्रायते शार्ङ्गधन्वा' 'अनितरश-
रणानामाधिराज्ये ऽभिषिञ्चेच्छमितविमतपक्षा शार्ङ्गधन्वानु-
कम्पा' इति शरणागतत्राणविषये शार्ङ्गधन्वित्व कर्तिन मेत-
च्छलोकार्थं व्यञ्जयतीव ॥
 
८६
 
1.
 
फक्कत्कौरवपत्तनप्रभृतयः प्रास्तप्रलम्बादय-
स्तालाङ्कस्य तथाविधा विहृतयस्तन्वन्तु भद्राणि नः ।
क्षीरं शर्करयेव याभिरपृथग्भूताः प्रभूतैर्गुणै-
राकौमारकमस्वदन्त जगते कृष्णस्य ताः केलयः ॥
शेषशेषिणावुभौ समकालं भुवमलंचक्रतुः । शेषश्च शेष्य-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)