This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
नवृजिनविरचितस्तस्य भवसागर: । हनूमत्समेन गुरुणा चेत-
नस्य भर्तृप्रेप्सोत्कण्ठानिवेदने तत्संश्लेषव्यवधायकपापरूपभव-
सागरं शोषयति भगवान्विशिखदवाशुशुअणिना । चेतनशा-
नाग्निना जनितो भगवत्क्रोधाग्निः सर्वकर्माणि भस्मसात्कुर्या.
दिव्यध्यक्षीकार्यत इव भगवता । अस्मज्ज्ञानजन्य भगवत्को-
धाग्निरस्मत्पापसागरं शोषयति । नास्मज्ज्ञानमात्रस्य तत्सा-
मर्थ्यम् ॥
 
सर्वावस्थसकृत्प्रपन्नेत्यादि । सर्वलोकशरण्यकर्तृकशर-
णागतिभङ्गरूपमहापराधिनमपि शरणं गतं ररक्ष । तव्य-
ज्यते सर्वावस्थेति । तादृक्प्रवृद्धो मन्युरार्द्रापिराधिनस्तस्य
प्रणामक्षणे शशाम ॥
 

 
धर्मो विग्रहवान् । शत्रोमोरीचस्य वचनं रावणं प्रति ।
शत्रुमपि रमयति गुणै रामः । न रामः परदारान्वै
यिमपि पश्यति' इति तत्काले शात्रवाविष्टा कैकेयी ।
शत्रुकृतप्रशंसा कथमयथार्था स्यात् । तत्कृतप्रशंसां सर्वः
श्रद्धास्यति । अनुकूलक्कृतप्रशंसा पक्षपातप्रयुक्ता स्यात् ।
श्रद्धा खलु मुख्यमङ्गं प्रपत्तेः । सा चोत्पाद्यते शत्रुप्रशंसा-
शब्दोपादानेन । धर्मश्च प्रपत्तिरूपधर्मः स्यात् ॥
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)