This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
समुद्रदहनसामर्थ्य न्याय्यम्, लयप्रकरणात् । कारणे लय-
स्य न्याय्यत्वात् । प्रलयकारणत्वं च ब्रह्मणः । जन्मादेः
प्रत्येकं ब्रह्मलक्षणत्वमस्ति खलु । तच्छराणां तदिच्छामात्रेण
समुद्रदहनशक्तिः स्यात् । परावरस्य भगवतो विशिखः पा.
रावारं दहति । ज्वालाजालविहारहारीति तत्साम्यं वा, तदा-
धिक्यं वा । दयानिधिना खलु प्रपत्तिमार्गः प्रकाश्येत ।
उत्तरार्धे च प्रपत्तिः प्रस्तूयते । कथं पूर्वार्धे ईदृशनिष्करुण-
त्वघोरत्वादिप्रदर्शन मिति चेत्, तत्प्रत्युक्तं दयाशतके 'अपां
पत्युः शत्रूनसहनमुनेर्धर्मनिगलं कृपे काकस्यैकं हितमिति
हिनस्ति स्म नयनम् । विलीनस्वातन्त्र्यो वृषगिरिपतिस्त्वद्वि-
हृतिभिर्दिशत्येवं देवो जनितसुगतिं दण्डनविधिम् ॥' इति ।
सागरं दण्डायेतुं प्रवृत्तः कोपस्तद्धितं परिणनाम । अतः
पूर्वार्धेऽपि दयाप्रभावस्यैव वर्णनम् । समुद्रराजं तादृशकोपज-
नकार्द्रापराधिनमपि शरणवरणक्षणे ररक्ष । तदहितांश्च तेनैव
कोपेन जघान । कोपस्यातिबृहत्त्व प्रदर्शनं तच्छमनोपायभूत-
नमस्कारस्य ततोऽपि बृहत्त्वं प्रदर्शयेत् । ' प्रत्यस्त्रमञ्जलिर सौ
तव निमहात्रे ।' अन्यापि गतिर्वर्तते पूर्वोत्तरार्धयोरेकीकरणे ।
सागर: प्रेप्सितां सीतां व्यवधत्ते । मध्यपाती स सीताप्रा-
प्तिपरिपन्थी । सीता च शोकान्मुमोचायषितश्चेतनः । चेत
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)
 
८४