This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
मुनेः ' इति तस्य मुनित्वेन ग्रहणं वेण्याम् ॥
पारावारपयोविशोषणकलापारीण
कालानल-
ज्वालाजालविहारहारिविशिखव्यापारघोरक्रमः ।
सकृत्प्रपन्नजनतासंरक्षणैकव्रती
 
सर्वावस्थ
 
धर्मो विग्रहवानधर्मविरतिं धन्वी स तन्वीत नः ॥
 
निरतिशयबृहत्त्वादिपरत्व प्रदर्शनमस्मिन्नवतारे कथं श-
क्यम् । 'आत्मानं मानुषं मन्ये' इति ब्रह्मत्वमत्यन्तं विस-
स्मरेऽवतरता भगवता । आसुरमोहनार्थं तानात्मनो मानु-
षत्वं मानयितुं मुक्तकण्ठं रुरोद दण्डकेषून्मतवत्, पामर-
बच्च । अस्मिन्नवतारेऽपि परत्वं प्रदर्शनीयं ब्रह्मत्वाहानार्थम्,
अवतारेष्वपि बृहत्त्वमध्यक्षयितुं च । कथमेतत्संपाद्येत । यद्यपि
सन स्वयं बृहत्वं प्रदर्शयामास, तच्छरेण प्रलयाग्नेरपि
घोरतरं सागरशोषणरूपोपसंहर्तृत्वादिकं प्रादार्श । तच्छरस्य
तादृश बृहत्त्वेन तद्ब्रहत्त्वमध्यक्ष्येत । शूरतमः शत्रुपक्षप्रधा-
नमल्लः शऋजिदेतस्मिन् सागरशोषणविक्रमं दृष्ट्वा विसिष्मिये,
तेन च राममुत्तमवीरं स्वसहशप्रतियोद्धारं मेने इति सुन्दरं
प्रदर्श्यते काव्यप्रकाशोदाहृते 'क्षुद्राः संत्रासमेते विजद्दत
हरयः क्षुण्णशकेभकुम्भा युष्मद्देहेषु लज्जां दधति परममी
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)