This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
येण वध्यसंख्यायाम् । अयं ब्रह्मचारी । अयं ब्राह्मणः
न जितं राज्यमीप्सेत् । राजगुणभूतरञ्जनव्यापारोऽस्यात्य-
न्तमशक्यः। विप्रत्वाद्विरक्तत्वाच्च जितां पृथिवीं काश्यपाय
प्रादात् । ब्राह्मणस्येशी विरक्ति: । राज्ये यदि सज्जेत
तदर्थमेव क्षत्त्रननं भवेत्, न पितृसन्तर्पणार्थम्, क्रोधा-
ग्निसन्तर्पणार्थं वा । राज्यकामना क्रोधैकान्त्यं विन्यात् ।
अयं क्रोधमेव जानाति, नार्थकामौ । धर्म तु जानातीति
तृतीयपादेन बोध्यते ॥
 
5
 
दत्वा कर्माणि दक्षिणां क्वचन तामास्कन्द्य सिन्धुं
वसन् । न स्वावस्थानार्थं स्वल्पमपि स्थलमियेष । कृत्स्नं
ददौ । दत्वा भूमेबहिर्गत्वा समुद्रमास्कन्द्य तत्र स्वतेजसा कं
चित्स्थलं कल्पयित्वा तत्रोवास ॥
 
अब्रह्मण्यमपाकरोतु भगवानाब्रह्मकीटं मुनिः । किं
शुभमयं क्रोधैकरस आतन्वीतेति चेत्, आब्रह्मकीटमब्रह्म-
ण्यमपाकुर्यादित्युच्यते । ब्रह्मण्यविरोधे किमापद्येत । 'ब्रा-
ह्मणो मम देवता' इत्युक्तभगवदैवतस्य हानि: स्यात् ।
धर्मेण लोको प्रियते । दैवेन लोको प्रियते । वेदैर्लोको
प्रियते । तत्वितयं ब्राह्मणाधीनम् । असहन मुनिरित्युक्तः
कोपनो मुनिः । "आशस्त्रग्रहणादक्कुण्ठपरशोस्तस्यापि जेता
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)