This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
क्रमेण होमः । यथाग्निर्हुताशनस्तथा क्रोधाग्नि: शत्रुरता-
शनः ॥
 
अक्षत्त्रामिह संततक्ष य इमां त्रिः सप्तकृत्वः क्षितिम् ।
' द्यावापृथिवी निष्ठतक्षुः' इति श्रुतिः प्रत्यभिज्ञाप्यते । क्षि
तितक्षणमवतारवृहत्वोपलक्षकम् । न तेनेव जगन्निर्माणं
तक्षणेन, किंतु क्षितेस्तक्षणेन निष्कण्टकीकरणमात्रम् ।
क्षत्त्र सामान्यं कण्टकमभूत् । तन्मात्रमपनीतं सम्यक्तक्ष-
णेन । अक्षत्वां संततक्ष । छेद्या वृक्षगुल्मलतादयो यथा
छेत्तारं न प्रतियुध्येरन्, तथास्य प्रतिभटाः परशुना छिद्य-
माना न प्रत्ययुध्यन्निति व्यज्यते । मूलानि निर्मूलयितुं क्षिति
तलं संतक्ष्येत । क्षत्वप्ररोहं निर्मूलयितुं पुनः पुनः क्षितितलं
संततक्ष । 'अलावीपालान् पितृगणमतास तद सृजा'
इति श्रीभट्टपादाः ॥
 
त्रियः
 
6
 
त्रिः सप्तकृत्वः । अयं नीरसो निष्करुणः शुष्कः श्रो-
दश पूर्वान्दशापरान् पुनादि' इति शुश्राव । आ-
त्मानं चान्तर्भाव्य एकविंशतिः संपद्यन्ते । पावनकर्मणि
पूर्वेषामपि तच्छास्त्रविषयीकरणं सुलभम् । अत्र तु हननवि-
षये न शत्रुपूर्व्या दिवं गताः पुनर्हन्येरन् । पित्वादिप्रणिना
राधनपावनादिविषये श्रुता त्रिः सप्तसंख्याद्रियतेऽनेन श्रोत्रि-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)