This page has been fully proofread once and needs a second look.


तुकं प्रदर्श्यते आनन्दमयस्य ब्रह्मणोऽस्तित्वं मातापितृसह-
स्रेभ्यो वत्सलतरया श्रुत्या । 'अस्ति ब्रह्मेति चेद्वेद' इत्यादि-
श्लोकः पुच्छवदानन्दमयविषये पठितः । ब्रह्मण आनन्दम-
यत्वेनास्तित्वं सर्वलोकहृदयारूढं यथा स्यात्तथा निरूपयति
"रसो वै सः, रसं ह्येवायं लब्ध्वानन्दी भवति' इति
श्रुतिः सर्वाः प्रजाः सत्तां लभेरन्नित्याशया । प्रजानामसत्क-
ल्पत्वं मातृदुःखाय भवेत् । श्रोत्रियस्य चाकामहतस्येत्यका-
महतत्वं हेतूक्रियते निरतिशयानन्दप्राप्तौ । कथं सर्वतो
विरक्तस्य रतिरिति चेदात्मकामोऽयम्, आत्मरतिः । 'अ-
यम्' शब्देन त्यक्तसर्वपरिग्रहोऽभ्युपगतसमस्तक्लेशरूपधर्म-
स्तपस्वी विवक्षितः । एवं च ब्रह्मणः स्वान्तरानन्दमयत्वेना-
स्तित्वं ब्रह्मविदनुभूयमाननिरतिशयानन्दनिदर्शनेन लोकाय-
तिकानामपि हृदयारूढतया सुविशदं प्रदर्श्यतेऽनया श्रुत्या ।
प्रसन्नं मुखं ब्रह्मवित्त्वे स्पष्टं लिङ्गमिति 'ब्रह्मविद इव ते सो-
म्य मुखं भाति । इत्युपकोसलं प्रत्याचार्यवचनं बोधयति ।
श्रुतिस्थमुखशब्दो ब्रह्मविदवयवान्तराणामप्युपलक्षणमिति दर्श-
यन्त्यचार्याः 'अङ्गान्यस्य मुहुर्मुहुः पुलकितान्यन्तर्मुखं
मानसं चिन्ता च द्रुतशर्कराप्रतिनिधिः शीताश्रुणी लो-
चने ।' इति संकल्पसूर्योदये 'आह्लादशीतनेत्राम्बुः पुलकी-