This page has not been fully proofread.


 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
,
 

तुकं प्रदर्श्यते आनन्दमयस्य ब्रह्मणोऽस्तित्वं मातापितृसह-

स्रेभ्यो वत्सलतरया श्रुत्या । 'अस्ति ब्रह्मेति चेद्वेद' इत्यादि-

श्लोकः
6:
पुच्छवदानन्दमयविषये पठितः । ब्रह्मण आनन्दम-

यत्वेनास्तित्वं सर्वलोकहृदयारूढं यथा स्यात्तथा निरूपयति

"रसो वै सः, रसं ह्येवायं लब्ध्वानन्दी भवति' इति

श्रुतिः सर्वाः प्रजाः सत्तां लभेरन्नित्याशया । प्रजानामसत्क-

ल्पत्वं मातृदुःखाय भवेत् । श्रोत्रियस्य चाकामहतस्येत्यका-

महतत्वं हेतूक्रियते निरतिशयानन्दप्राप्तौ । कथं सर्वतो

विरक्तस्य रतिरिति चेदात्मकामोऽयम्, आत्मरतिः । 'अ-

यम्' शब्देन त्यक्तसर्व परिग्रहोऽभ्युपगत समस्तक्लेशरूपधर्म-

स्तपस्वी विवक्षितः । एवं च ब्रह्मणः स्वान्तरानन्दमयत्वेना-

स्तित्वं ब्रह्मविदनुभूयमानानरातेननिरतिशयानन्दनिदर्शनेन लोकाय-

तिकानामपि हृदयारूढतया सुविशदं प्रदर्श्यतेऽनया श्रुत्या ।

प्रसन्नं मुखं ब्रह्मवित्त्वे स्पष्टं लिङ्गमिति 'ब्रह्मविद इव ते सो-

म्य मुखं भाति । इत्युपकोसलं प्रत्याचार्यवचनं बोधयति ।

श्रुतिस्थ मुखशब्दो ब्रह्मविदवयवान्तराणामप्युपलक्षणमिति दर्श-

यन्त्यचार्याः 'अङ्गान्यस्य मुहुर्मुहुः पुलकितान्यन्तर्मुखं

मानसं चिन्ता च द्रुतशर्कराप्रतिनिधिः शीताश्रुणी लो-

चने ।' इति संकल्पसूर्योदये 'आहाह्लादशीतनेत्राम्बुः पुलकी-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)