This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
इतिवत्
 

I
 
क्रोधः स्थायीभावो भवेद्भगवतः, यथा परशु-
रामे विद्यते । क्षत्वजातिसामान्यस्य क्षत्वियेण भगवतोन्मू-
लनं न न्याय्यम् । ब्रह्मण्यपराधो ब्राह्मणावेशनेन दीर्घवैरः
परिहर्तुमुचितः । जामदग्न्यो रुद्रशिष्यः । महावीरः को-
पनश्च । तस्मिन्स्वशक्तिमावेश्य तद्वारा चिकीर्षितं साधयति ।
दशस्त्रवतारेषु द्वाबवतारौ शेषजीवयोः । अवतारेष्वपि शेषी
शेषमपि निवेशयति । तस्य कनीयानपि भवति । अवत-
रन्तौ शेषशेषिणौ समकालेऽपि भुवमलंकुर्वाते । यथात्र स्वे-
च्छया शेषं गुरुत्वेन पूजयति लालयति च, तथा परमप-
देऽपि तं संमानयिष्ये इति रहस्यमवतारेऽपि प्रकाश्यते ।
परशुरामकृत्यं जुगुप्सितमिति मन्येत । अब्रह्मण्यापाकरणरू-
पनिमित्तेन तादृशघोरकृत्यानि निरवर्त्यन्त इत्याचार्या व्यञ्ज-
यन्ति ' अब्रह्मण्यमपाकरोतु' इति । कथमन्यथा तद्बोरकृ-
त्यस्य शुभत्वं निरुह्येत । इतक्षत्त्रियतनुगलत्क्षतजधारापूर्णानि
घोरपञ्चमहासरांसि खल्वनेन व्यरचिषत । पञ्चत्वमापन्नश्च -
त्त्रियरक्तैः पञ्च सरांसि । क्षत्त्रमात्र प्रलयकृदयं रुद्रशिष्यः ।
भगवदाहितशक्त्या तस्य तादृशं बृहत्त्वम् ॥
 
७७
 
क्रोधार्थीि जमदग्निपीडनभवं सन्तर्पयिष्यन्क्रमात् ।
पितृवधनिमित्तः क्रोध इति क्रोधहेतुप्रदर्शनं तस्य दोषैकान्त-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)