This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
"
 
य्यं स्यात् । यदि प्रजारक्षणार्थं नियुक्ता अधिकारिणस्तत्रापि
सेनाधिकारिणः स्वयं प्रजाघातुका भवेयुस्तेषां प्राणान्तिको
दण्डो न्याय्य: स्यात् । तथैवेदानीं नियमः सर्वेषु देशेषु
सेनानये । को ब्राह्मण: ? ' मौनं चामौनं च निर्विद्याथ
ब्राह्मणः' इति श्रुतिप्रतिपादितो महातपस्वी 'ब्रह्मण एवायम्'
ब्रह्ममात्रसंबन्धी । शमप्रधानास्तपोधना राज्ञा सर्वथा रक्ष
णीयाः । तद्विषये किंचित्कारेण तत्सुकृतं सर्वमपि दायत्वेन
लभ्यते । तदपकृतौ च तद्दुष्कृतं सर्वमपकारिणि सङ्क्रमेत् ।
'शास्त्रफलं प्रयोक्तरि' इत्यनुल्लङ्घनीयं न्यायमपोद्यात्यन्तादरे-
जैनं निरायुधं क्रुध्यन्तमप्रतिक्रुध्यन्तं स्वदेहयात्रायां निरपेक्ष
रक्षितुं श्रुतिरेवं शशास । कार्तवीर्यः प्रसिद्धः पृथिवीपालः ।
' अन्तःशरीरेष्वपि यः प्रजानां प्रत्यादिदेशाविनयं विनेता ।
अकार्यचिन्तासमकालमेव प्रादुर्भवंश्चापधरः पुरस्तात् ॥'
इति हृषीकेशवत्प्रजानाम कार्यचिन्तनसमय एव चापहस्तः
पुरस्तादाविर्भूय भीषयित्वाकार्यकरणान्निवारयामास । तादृशी
सिद्धिः संपादिता तेन परेषामकार्यनिवारणे । यदि स धर्म-
सेतुः स्वयं तपस्विब्राह्मणपीडको भवेत्, तत्पुत्रस्य कोपो
जायेतैव । रौद्रबीभत्सरसौ प्रदर्श्यतेऽस्मिन्नवतारे । क्रोधो न
सहजो भगवतः । आहार्यः स तस्य । ' क्रोधमाहारयामास '
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT).