This page has been fully proofread once and needs a second look.

मात्रं कुर्याद्वीथीषु । यदि यदृच्छया कारुणिकैर्जनैः शिक्ये
किमप्यन्न्ं प्रक्षिप्येत तच्चरेद्भक्षयेत् । चरणमात्रलब्धं चरेदिति
श्रुत्यर्थ: । न केवलं सुखसाधनानि परित्यक्तानि, दृष्टविधया
क्लेशभूताः सर्वेऽपि पारमैकान्त्यधर्मास्तीव्रमविच्छिन्नमनुष्ठी-
यन्ते । सर्वसुखपरित्यागी बहुक्लेशपरिगृहीत्यानन्दसागरमग्नः
सततहृष्टो दृश्यते । अत्रावधूतयदुसंवादः स्मर्तव्यः । 'अव-
धूतं द्विजं किञ्चिच्चरन्तमकुतोभयम् । यदुर्निरीक्ष्य पप्रच्छ'
' त्वं हि नः पृच्छतां ब्रह्मन्नात्मन्यानन्दकारणम्' 'ब्रूहि'
इति । अवधूतस्यानन्दभरितत्वदर्शनेन विस्मितः संराट् स्वेन
स्वप्नेऽप्यलब्धस्य तदनुभूयमानस्यानन्दस्य कारणं पप्रच्छ ।
केन रसेन सर्वसङ्गपरित्यागिनोऽस्य तपस्विनो हृदयं व्याप्तम्,
येनासावानन्दभरितो वर्तते । किमयं चिन्तयति । 'मच्चि-
त्ताः' इति भगवदेकचित्तोऽयम् । 'मद्गतप्राणाः' इति
भगवच्चिन्तयैव प्राणिति । तत्स्मृत्यपहारे गतप्राणः स्यात् ।
रसभूमानं सर्वान्तरमानन्दमयमेवायमावृत्तचक्षुषा पश्यति,
तमेव शृणोति, विजानाति; नान्यत्पश्यति, शृणोति, वि-
जानाति । अन्वयव्यतिरेकाभ्यां कार्यकारणभावो व्यवस्थाप्येत ।
अन्वयव्यतिरेकाभ्यामर्थापत्त्या चास्य रसान्तरविरक्तस्यान-
न्दपीनत्वं ब्रह्मसंस्पर्शहेतुकमिति निश्चीयते । एवंरीत्या सहे-