This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
मात्रं कुर्याद्वीथीषु । यदि यदृच्छया कारुणिकैर्जनैः शिक्ये

किमप्यनंन्न्ं प्रक्षिप्येत तच्चरेद्भक्षयेत् । चरणमात्रलब्धं चरेदिति

श्रुत्यर्थ: । न केवलं सुखसाधनानि परित्यक्तानि, दृष्टविधया
वे

क्ले
शभूताः सर्वेऽपि पारमैकान्त्यधर्मास्तीव्रमविच्छिन्नमनुष्ठी-

यन्ते । सर्वसुखपरित्यागी बहुक्लेशपरिगृहीव्त्यानन्दसागरमग्नः

सततहृष्टो दृश्यते । अत्रावधूतयदुसंवादः स्मर्तव्यः । 'अव-

धूतं द्विजं कब्किञ्चिच्चरन्तमकुतोभयम् । यदुर्निरीक्ष्य पप्रच्छ'

' त्वं हि नः पृच्छतां ब्रह्मन्नात्मन्यानन्दकारणम्' 'ब्रूहि'

इति । अवधूतस्यानन्दभरितत्वदर्शनेन विस्मितः संराट् स्वेन

स्वप्नेऽप्यलब्धस्य तदनुभूयमानस्यानन्दस्य कारणं पप्रच्छ ।

केन रसेन सर्वसङ्गपरित्यागिनोऽस्य तपस्विनो हृदयं व्याप्तम्,

येनासावानन्दभरितो वर्तते । किमयं चिन्तयति । 'मषिच्चि-

त्ताः' इति भगवदेकचित्तोऽयम् । 'मद्द्भवगतप्राणाः' इति

भगवञ्च्चिन्तयैव_ प्राणिति । तत्स्मृत्यपहारे गतप्राणः स्यात् ।

रसभूमानं सर्वान्तरमानन्दमयमेवायमावृत्तचक्षुषा पश्यति,

तमेव शृणोति, विजानाति; नान्यत्पश्यति, शृणोति, वि-

जानाति । अन्वयव्यतिरेकाभ्यां कार्यकारणभावो व्यवस्थाप्येत ।

अन्वयव्यतिरेकाभ्यामर्थापत्त्या चास्य रसान्तरविरक्तस्यान-

न्दपीनत्वं ब्रह्मसंस्पर्श हेतुकमिति निश्चीयते । एवंरीत्या सहे-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)