This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
बानेतद्गृहस्थूणागर्भे
 
इति श्रीनृसिंहः
 
। महासुरगृहस्थूणासुप्रज
संबोध्येत । उत्तरा सन्ध्या प्रवर्तते उत्तिष्ठ नरसिंह । गर्भ-
वासकालतारतम्यं बहुविधं वर्तते । कुत्रापि नैकक्षणमात्रा-
वच्छेदो गर्भवासस्य । प्रह्लादः प्रतिजज्ञे ' स सर्वत्र' इति ।
कासौ ? यदि स सर्वत्र कस्मात्स्तम्भे न दृश्यते इत्यनुपदं पितुः
प्रश्नः । अनुपदमेव 'दृश्यते' इत्यवतारदर्शनं प्रह्लादस्य ।
दृश्यत इति प्रह्लादवचनमपि भवेत् । 'विमूढा नानुपश्यन्ति
पश्यन्ति ज्ञानचक्षुषः ।' यद्यपि पित्रा न तदा दृष्टः, नापि
लोकेन, ज्ञानालोकेन पुत्रेण पूर्वमेव दृष्टः स्यात् । प्रह्लादार्थे
नृसिंहः, तेनैव प्रथमं दृश्येत । तद्दृष्टं तत्प्रदर्शितमनूद्यते
'सत्यं विधातुं निजभृत्यभाषितम्' इत्यवतारवर्णन श्लोकेन ।
ब्रह्मस्तम्बमसौद्विश्वंभरेत्युक्तं पूर्वश्लोके । अत्र ब्रह्मपितरं ब्रह्म
स्तम्भः प्रासूतेत्युच्यते । अत्र वा पूर्वश्लोके वा असुरनिरसनं
न प्रकाशितम् । साधुपरिवाणमात्रं वर्णितम् । शुभतननं
खलु प्रार्थितं प्रथमश्लोके ॥
 
w
 
व्रीडाविद्धवदान्यदानवयशोनासीरघाटीभट-
स्वैयक्षं मकुटं पुनअवतु नस्त्रैविक्रमो विक्रमः ।
यत्प्रस्तावसमुच्छ्रित ध्वजपटीवृत्तान्तसिद्धान्तिभिः
स्रोतोभिः सुरसिन्धुरष्टसु दिशासौधेषु दोधूयते ॥
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)