This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
च्छैव नियामिका । असुरेच्छा वा यदृच्छाशब्देन ग्राह्या । इत-
रत्र प्रदर्शनं स नाचकाङ्क्ष । यदृच्छया सोऽत्रैव दिदृक्षां प्रकटी-
चकार । किमिदमघंटितघटनम् । तिष्ठतु नरसिंहयोरेकत्र
सुलिष्टं घटनम् । तिष्ठतु महासुरेणाप्यघटनीयत्वेन निश्चि-~-
तपरस्परविरुद्धानेकद्विकहानघटनम् । इयमचेतना स्थूणा चेत-
नानां चेतनमसूत । किमिदमाश्चर्यम् । 'परस्परविरोधे हि न
प्रकारान्तरस्थितिः । नैकतापि विरुद्धानामुक्ति पात्रविरोधतः ॥
इति न्यायः श्रद्दधेऽसुरेण वरवरणकाले । ब्रह्मणः सकलतर्का-
तीतत्वं विस्मृतं तेन । 'नैषा तर्केण मतिरापनेया' इत्याद्यपनि-
पदर्था न गृहीतास्तेन विरोचनजातीयेनासुरेण ॥
 
वेधसां या काचित्सहसा महासुरगृहस्थूणा पिताम-
ह्यभूत् । अघटितघटना दृढीक्रियते । वेधसां पितामहानां
पितामह्यभूत्स्थूणा। वेधसां पितामहानां पितामही स्थूणा गर्भ
धत्ते । सूते च सर्वलोकपितामहम् । महासुरशब्दः प्रयुज्यते
हिरण्यकशिपुविषये श्रीशुकेन । 'सुतं महाभागवतं महासुरः
'अभ्यहनन्महासुरः' इति शुकमुखाच्च्युतः शब्द आचार्यैर्गृह्य-
ते । महासुरगृहे वेधसां पितुर्जन्म । यद्यपि स महासुरः, स्वेन
स्वीयेन वा भगवतो भागवतोत्तमस्य च गर्भे धारणमस्य
भाग्यमित्यपि व्यज्यते । यथा प्रह्लादोऽस्य गर्भे, तथा भग-
-MP Sastry Library Free Digitisation indoscripts.org (ISRT)
 
5