This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
इतो रिपुः । गतश्च प्रह्लादः । कथं तत्प्रादुर्भावेन त्रिजगदनु-
महस्तत्परित्राणं च प्रार्थ्यत इति चेत्, अकुण्ठमहिमायमि-
त्युच्यते । यदा प्रह्लादः प्रतिजज्ञे पितृसंनिधौ 'हरिः सर्वत्र'
इति, तत्सत्यपरीक्षकः पिता यत्र कुत्र वा स्वेटस्थले हरिं
प्रदर्शयेत्याज्ञापयेत् । तत्कासितस्थलेऽप्रदर्शने भक्तवाग्वन्ध्या
भवेत् । 'शिरः कायाद्धरामि ते' इत्याक्रोशन्पिता तमर्भकं
हन्यात् । न हि तत्पूर्वं पित्रा साक्षात्स्वबलेन पुत्रहनने प्रवृ
त्तम् । तदानीमेव तदिच्छा उदघुष्यत । तदिच्छा प्रकटनक्षण
एव भगवता प्रादुर्भवनीयम् । हरिं दिदृक्षति पिता तेन यो-
दुम् । हरेर्व्याप्तिं प्रतिजानीते पुत्रः । अवतरता च हरिणा
सिंहेन भाव्यम् । आदौ 'किं साधु मन्यते भवान्' इति
पृष्टवन्तं पितरम् " तत्साधु मन्येऽसुरवर्य देहिनाम्.... वनं
गतो यद्धरिमाश्रयेत' इति प्रत्याह सुतः । तत्रापि सिंहमेव
हरित्वेनासूसुचत् । वनं गतो वनराजं सिंहमेवाश्रयेत । प्रहा-
दस्य हरिः सिंह एव स्यात् । यत्न कुत्रापि हरिप्रदर्शनेच्छाप्र-
कटनसंभवेन सर्ववस्त्वन्तर्भगवता नृसिंहरूपेणावस्थितमिति
प्रदश्यते आचार्यै: 'स्तम्बैकवर्जमधुनापि करीश नूनं त्रैलोक्य-
मेव नियतं नरसिंहगर्भम्' इति । तत्र 'त्रैलोक्यम्' इति ।
अत्र त्रीणि जगन्तीति वर्णनसाम्यमवधेयम् । गर्भभूतोऽच्यु-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)
 
m