This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
मान्नकण्ठीरवः । प्रह्लादस्य गिरः प्रमाणनविधौ दिव्याकृतिः
स्तम्भतो निर्यातः प्रकटीभवेत्स हृदयाम्भोजे ममाखण्डितम् ॥'
इत्यद्भुतोऽनुभवः श्रीनृसिंहविषये कल्पतरुकाराणां श्रीमदम-
लानन्दयतीनाम् । एतच्छ्लोकभाववर्णने नावावतराम श्चिरमज्ज-
नभयात् ॥
 
अव्यात्रीणि जगन्ति । पाणिजैरव्यादित्यप्यन्वयः ।
' प्रह्लादह्लादनानि' इति सततं प्रकृष्टह्लादमग्नमत एव प्रह्लाद
इति ख्यातं प्रह्लादमद्भुतमपूर्व ह्रादयितुमतिसुन्दरात्यन्तसुघटि-
तनृसिंहतनुः परिजगृहे । तामेवागौणीं नृसिंहतनुं सर्वदास्म-
ल्लोचनचमत्काराय अस्मत्पुरतोऽवस्थाप्यास्मान्मन्दह्लादान्हाद-
यतु । अद्भुतसुन्दरवपुःप्रदर्शनेनावनं प्रार्थ्यते । 'नारसिंह-
वपुः' इत्युक्त्वा तस्य भीषणत्वादि निवार्य सौन्दर्य प्रख्याप-
यितुमनुपदमेव 'श्रीमान्' इति पठ्यते सहस्रनामसु । तद्व-
बुर्दर्शनानन्तरं प्रत्येकं लोकोत्तरसुन्दरं नरं वा सिंहं वा द्रष्टु-
र्जुगुप्सा जायेतेत्युक्तं श्रीमद्भट्टारकैस्तद्भाष्ये । तदेव वर्णितं
श्रीरङ्गराजस्तवे 'नृहरिदशयो: पश्यन्नौत्पत्तिकं घटनाद्भुतं
नरमुत हरिं दृष्ट्कैकं समुद्विजते जनः' इति ॥
 
अकुण्ठमहिमा वैकुण्ठकण्ठीरवः । क्षणिकोऽयमवतारः ।
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)