This page has not been fully proofread.

दशावतारस्तोत्र व्याख्या ।
 
जानां निवेशनं क्षणिकमेव । न तेभ्यो भवदधिकारः स्थिरं
दास्यते । तेषां भवत्प्रतिभूत्वं भवत्प्रत्यादेशत्वं न क्षणादधिकं
स्यात् । यूयमेव मम स्थिरायुधाधिकारभाजः । एवं वदं-
स्तानि पाणिजै: ' तिष्ठन्तु भवन्तः,
तिष्ठन्तु भवन्तः, मानुयान्तु माम्
 
,
 
इति संज्ञां करोतीव तानि क्षणं निषेधन् भक्तवागसत्यताभि-
या। पाणिजै: प्रत्यादिशति तान्यनुगमनोत्सुकानि 'क्षणम्'
इति कथयन् । 'पाणिजान्' प्रदर्य तान्याश्वासयति, न
मेतव्यं भवद्भिरहं निरायुधो यास्यामि प्रबलशत्रुं योद्धुमिति ।
सन्त्येतेऽद्रुताः पाणिजा इति प्रहरणप्रामशब्देन द्योत्यत
इव । पाणिजशब्देन नखविशेषणतया पाणेरपि ग्रहणेन तेन
निषेधनमभयप्रदानं च व्यज्यते । यथा वराहस्य घोणा
बलम्, तथा सिंहस्य नखानि बलम् । तद्बलं भूयः प्रदर्श्यते
सर्वैरपि कविभिः ।
समुग्धकान्तास्तनभङ्गभङ्गुरैरुरोविदारं
 
G
 

 
प्रतिचस्करे नखैः
 

 
वक्ष एष निरदारयन्नखैः' इति
 
माघानुभवः । 'नखक्षुण्णारातिक्षतजपटलैः' इति भाट्टानु-
भवः । ' नखरशृङ्गदम्भोलिभि: ' 'दम्भोलिश्रेणिदीप्यत्खरन-
खरमुखक्षुण्णदैतेयवक्षोनिष्ठ्यता सृक्स्रवन्तीभरितदशदिशादर्शि-
तापूर्वसन्ध्यः' इत्याचार्यानुभवोऽन्यत्र । 'माद्यन्मोहमहेभ-
कुम्भदलनप्रोद्भूतसन्मौक्तिक थोतालंकृतचित्सुखाद्वयवपुः श्री-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)
 
-