This page has not been fully proofread.


 
६०
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि
 
स्वं खल्वाक्षिप्तं शत्रुणा । तत्स्थापनार्थं खल्वयमवतारः ।
यथा ब्रह्मणो भक्तबृह्मयितृत्वं तथा सत्यस्य तस्य भक्तसत्यापनं
स्वभावः । आत्मसाम्यावहत्वं खलु तत्प्रकृतिः । 'सत्यं वि-
धातुं निजभृत्यभाषितं व्याप्ति च भूतेष्वखिलेषु चात्मनः
इति व्याप्तिसत्यापनयोः सहपाठः । यथा वराहस्य नासा
बलं तथा सिंहस्य नखं बलम् ॥
 
9
 
-
 
प्रत्यादिष्टपुरातनप्रहरणग्रामः क्षणं पाणिजैः । १. अत्र
भगवतस्तदायुधानां चोक्तिप्रत्युक्तिरूपसंवादो व्यज्यते । भग-
वन्तं सङ्क्रामाय यियासन्तं सुदर्शनकौमोदक्यादिदिव्यायुधानि
भगवता सह खानुगमनानुज्ञां निर्बन्धेन याचन्ते 'वयं
पुरातनान्यायुधानि । बहुषु सङ्ग्रामेषु कृतसाहाय्यानि सम्य-
क्परीक्षितानि । चिरकृतयोधनयोग्यानि वयम् । पुरातनभृत्या
बयम् । न वयं भूषणायेतरभूषणवत् । न वयमलंकारार्थ ति-
ष्ठामः । अत्राणि खलु वयम् । शबुं प्रहुर्तुं वयमास्महे । वयं
बहून्यास्महे । ईदृश: सङ्कामोत्सवो दुर्लभः । न वयमधुना
परित्याज्यानि । अस्माकं प्रत्यादेशो न न्याय्यः । एवंरूपा आ
क्षेपाः 'प्रत्यादिष्ट' 'पुरातन' 'प्रहरणप्राम' इत्यादिशब्दैर्व्यज्य-
न्ते । तान्याश्वास्यन्ते भगवता 'क्षणमात्रं भवद्भिर्मद्विश्लेष:
सह्यः । क्षणकाले प्रतियास्यामि । भवदधिकारे पतेषां पाणि-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)
 
P