This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
प्रत्यादिष्टपुरातनप्रहरणग्रामः क्षणं पाणिजै-
रव्यात्रीणि जगन्त्यकुण्ठमहिमा वैकुण्ठकण्ठीरवः ।
यत्प्रादुर्भवनादवन्ध्यजठरा यादृच्छिकाद्वेधसां
या काचित्सहसा महासुरगृहस्थूणा पितामह्यभूत् ॥
 
५९.
 
'दिवि स्पृशत्कायम्' 'सदावधूता जलदाः परापतन्' 'अम्भो-
घयः श्वासहता विचुक्षुभुर्निदमीता दिगिभा विचुकुशुः ।
द्यौस्तत्सटोत्क्षिप्तविमानसकुला प्रोत्सर्पत क्ष्मा च पदाति-
पीडिता ॥ ' 'शैलाः समुत्पेतुरमुध्य रंहसा तत्तेजसा स्वं
ककुभो न रोरोजेरे।' इत्यस्य नृसिंहवपुषो निरतिशयबृहत्वव्य-
ञ्जनं श्रीभागवते । 'सटाच्छटाभिन्नघनेन बिभ्रता नृसिंह
सहीमतनुं तनुं त्वया ।" इति माघकवेस्तद्वपुषो बृहत्त्वानुभ-
वः । 'हिरण्यकरघट्टितात्सपदि जृम्भितः स्तम्भतः । पुरः
स्फुरति संभ्रमस्फुटसटाच्छोटनत्रुटद्धनघनारवद्विगुणबृम्हितः
सिंहराट्' 'सटाविधुतिसंभ्रम भ्रमितसप्तलोकस्थिति: ' ' प्र-
त्यूढस्थेमभीमप्रलय घनघटाघोषणा डम्बराणि । क्षुभ्यत्सप्ताम्बुधी-
नि....अस्मद्भीतिव्यपोहं विदधतु नृहरेरगृहासाद्भुतानि इति
विचित्रो ब्रह्मत्वानुभवो नृसिंहब्रह्मविषय आचार्याणाम् । अ-
ध्यक्षयाम इव नृसिंह तद्वर्णनैः ! ' प्रकर्षाद्विष्णुत्वद्विगुणपरि-
णाहोत्कटतनुः' इति श्रीभाट्टानुभव: : विष्णोर्व्याप्तिरूपब्रह्म-

 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)